महा-अष्टमी-नवमी-तिथ्योः अवसरे आस्थायाः सागरः उत्थितः
मीरजापुरम्, २७ मार्चमासः (हि.स.)। चुनार-क्षेत्रस्य अदलपुरा-स्थिते बृहत्-शीतला-माता-धाम्नि महाअष्टमी-नवमी-तिथ्योः आस्थायाः जन-तरङ्गः उत्थितः। गुरुवासर-रात्रेः आरभ्य शुक्रवासर-पर्यन्तं धाम-परिसरे लक्षाधिक-श्रद्धालूनां समागमः अभवत्। रात्रि-श्रृङ्गार-आ
नवरात्र की महाअष्टमी, नवमी तिथि पर  माता रानी का श्रृंगार।


मीरजापुरम्, २७ मार्चमासः (हि.स.)। चुनार-क्षेत्रस्य अदलपुरा-स्थिते बृहत्-शीतला-माता-धाम्नि महाअष्टमी-नवमी-तिथ्योः आस्थायाः जन-तरङ्गः उत्थितः। गुरुवासर-रात्रेः आरभ्य शुक्रवासर-पर्यन्तं धाम-परिसरे लक्षाधिक-श्रद्धालूनां समागमः अभवत्। रात्रि-श्रृङ्गार-आरार्तिक्याः दर्शनार्थं श्रद्धालवः सम्पूर्णां रात्रिं यावत् पङ्क्तिषु स्थितवन्तः।

उच्यते यत् अस्मिन् काले प्रायः चतुलक्षं श्रद्धालवः मातुः गौर्याः तथा मातुः सिद्धिधात्री-स्वरूपयोः दर्शन-पूजनं कृत्वा मनोकामनाः याचितवन्तः। समर्द्दस्य कारणात् मन्दिरस्य कपाटः केवलं रात्रौ १२ वादनात् १ वादनपर्यन्तं एक-होरात्मक-कालाय निमीलितः, अन्येषु समयेषु दर्शन-पूजनं निरन्तरं प्रवृत्तम् आसीत्।

श्रद्धालवः नारिकेलं, चुनरी-वस्त्रं, शष्कुली-लप्सिका, पुआ तथा फल-पुष्पाणि गृहीत्वा जयघोषान् कुर्वन्तः गर्भगृहं यावत् आगत्य मातरं प्रति भोगं समर्पितवन्तः। मान्यतायाः अनुसारं भक्ताः सन्तान-सुखं समृद्धिं च कामितवन्तः। समग्रे मन्दिर-परिसरे समीप-वीथयः च “जय माता दी” इति घोषेण निनादिताः।

भीषण-सम्मर्दं नियन्त्रयितुं आरक्षक-प्रशासनयोः कठोरः प्रयासः आवश्यकः अभवत्। अपरं पुजारिणोऽपि निरन्तरं श्रद्धालूनां सुगम-दर्शन-व्यवस्थायां महत्त्वपूर्णां भूमिकां निर्वहन्तः आसन्। सुरक्षा-व्यवस्थायाः अन्तर्गतं बहुसंख्यकाः आरक्षक-तथा पीएसी-बलानि अपि सज्जिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता