अयोध्यायां रामनवमी पर्व : सरयू स्नानं—दानं पुण्यं राम ललादर्शनं च इत्येभ्यः आपन्नाः लक्षशः श्रद्धालवः
-ब्रह्म मुहूर्तात् लक्षं श्रद्धालवः सरयू नद्याः घट्टेषु अकुर्वन् स्नानम् अयोध्या, 27 मार्चमासः (हि.स.)। रामनवमी-पर्वणि अद्य रामनगर्याम् अयोध्यायां श्रद्धायाः जनसैलः समुत्सृतः दृश्यते। शुक्रवासरे ब्रह्ममुहूर्तात् एव लक्षशः श्रद्धालवः सरयूतटेषु
राम लला


राम नवमी प्रशासन


-ब्रह्म मुहूर्तात् लक्षं श्रद्धालवः सरयू नद्याः घट्टेषु अकुर्वन् स्नानम्

अयोध्या, 27 मार्चमासः (हि.स.)। रामनवमी-पर्वणि अद्य रामनगर्याम् अयोध्यायां श्रद्धायाः जनसैलः समुत्सृतः दृश्यते। शुक्रवासरे ब्रह्ममुहूर्तात् एव लक्षशः श्रद्धालवः सरयूतटेषु स्नानार्थं आगच्छन्ति। अस्मिन् दिने सरयू-स्नानं दानं च विशेषतः पुण्यदायकं मन्यते। दूरस्थप्रदेशेभ्यः आगताः भक्ताः महानुत्साहेन धार्मिक-अनुष्ठानेषु भागं गृह्णन्ति।

सरयू-स्नानानन्तरं श्रद्धालवः राममंदिरेण सहितेषु प्रमुख-मन्दिरेषु दर्शनार्थं गच्छन्ति। मन्दिराणि भव्य-सज्जया पुष्पैः प्रकाशैः च अलङ्कृतानि सन्ति। “जय श्रीराम” इति घोषैः सम्पूर्णा नगरी भक्तिमय-वातावरणेन पूर्णा अस्ति। स्त्रीभिः पारम्परिक-‘सोहर’-गीतानि भजन-कीर्तनानि च आयोज्यन्ते। भगवान् श्रीरामस्य जन्मोत्सवस्य निमित्तं श्रद्धालुषु विशेषः उत्साहः दृश्यते।

रामनवमी-अवसरे अयोध्यायां महान् जनसमूहम् दृष्ट्वा सुरक्षा-व्यवस्थाः अत्यन्तं दृढतया विन्यस्ताः सन्ति। सर्वे वरिष्ठ-अधिकारी सक्रियतया कार्यरताः सन्ति। आयुक्तः, जिलाधिकारी, वरिष्ठ-पुलिस-अधीक्षकः च विधि-व्यवस्थायाः निरन्तरं निरीक्षणं कुर्वन्ति।

मार्च-मासस्य षड्विंशे दिने (26 मार्च) विंशति-लक्षाधिकाः श्रद्धालवः सरयू-नद्यां स्नानं कृतवन्तः। अद्य सप्तविंशे दिने (27 मार्च) अपि प्रायः दश-लक्षाधिकाः श्रद्धालवः स्नानं कृतवन्तः, तथा एषः क्रमः निरन्तरं प्रवर्तते।

हिन्दुस्थान समाचार