कन्या पूजनोत्तरं गोरखपुरे मुख्यमंत्रिणे योगिने लब्धःअनुपमः उपहारः, दात्र्या लघ्व्या बालिकया जितं मनः
उपहाररूपेण बुलडाेलरक्रीडनकं दृष्ट्वा हसितो मुख्यमंत्री योगी गोरखपुरम्, 27 मार्चमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः शुक्रवासरे कानपुरनगरस्य चतुर्वर्षीया बालिका यशस्विनी सिंह तस्मै ‘उपहारं’ समर्प्य तस्य आशीर्वादं प्राप्नोत्।
*4 साल की यशस्विनी मुख्यमंत्री योगी आदित्यनाथ को गिफ्ट किया 'बुलडोजर'*


उपहाररूपेण बुलडाेलरक्रीडनकं दृष्ट्वा हसितो मुख्यमंत्री योगी

गोरखपुरम्, 27 मार्चमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः शुक्रवासरे कानपुरनगरस्य चतुर्वर्षीया बालिका यशस्विनी सिंह तस्मै ‘उपहारं’ समर्प्य तस्य आशीर्वादं प्राप्नोत्।

स्वमातापित्रोः सह गोरक्षनाथ मंदिरे आगता यशस्विनी मुख्यमन्त्रिणे उक्तवती— “भवान् प्रथमं नेत्रे निमीलयतु, ततः अहं भवते उपहारं दास्यामि।” ततः सा स्वेन सह आनीतं लघु-बुलडोजरक्रीडनकं मुख्यमन्त्रिणः हस्तयोः न्यधात्। बालिकाया उपहारं दृष्ट्वा मुख्यमन्त्री अपि मोदं कृतवान्।

नवरात्र-पर्वणि गोरखपुरे प्रवासं कुर्वन् मुख्यमन्त्री योगी आदित्यनाथः शुक्रवासरे प्रातःकाले गोरक्षनाथ-मन्दिरे आसीत्। तस्मिन् समये तस्य दृष्टिः स्वमातापित्रोः सह आगतायाः बालिकायाः उपरि अपतत्। सः ताम् समीपं आहूय तस्यै चॉकलेहं दत्तवान्।

मुख्यमन्त्रिणा प्रभाविताऽसौ चतुर्वर्षीया यशस्विनी उक्तवती— “भवतः कृते विशेषः उपहारः अस्ति, किन्तु भवान् प्रथमं नेत्रे निमीलयतु।” मुख्यमन्त्री हसित्वा तस्याः वचनं स्वीकृतवान्। ततः सा मुख्यमन्त्रिणः हस्तयोः लघु-बुलडोजर-रूपेण उपहारं समर्पितवती।

उपहारं दृष्ट्वा मुख्यमन्त्री सहिताः सर्वे उपस्थिताः जनाः हास्यं विना न स्थितवन्तः। उपहारदानानन्तरं यशस्विनी उक्तवती— “भवतः बुलडोजरः प्रियः अस्ति, अतः अहं भवते एतत् उपहारं ददामि।”

यशस्विनी सिंह कानपुरस्य प्रताप-इण्टरनेशनल-कॉलेजे नर्सरी-कक्षायाः छात्रा अस्ति। सा स्वपित्रा अभय सिंह राजावत तथा मात्र्या प्रियदम्वा सिंहेन सह गोरक्षपीठाधीश्वरात् आशीर्वादं प्राप्तुं गोरखपुरं आगता आसीत्। मुख्यमन्त्रिणा सह मिलित्वा यशस्विनी अतीव प्रसन्ना दृष्टा।

---------------

हिन्दुस्थान समाचार