Enter your Email Address to subscribe to our newsletters

पटना, 27 मार्चमासः (हि.स.)।
राज्यपालः लेफ्टिनेंट-जनरल सैयद अता हसनैन (सेवानिवृत्तः) महोदयः प्रदेशवासिभ्यः रामनवमी-पर्वणः शुभाशयाः प्रदत्तवान्।
स्वस्य सन्देशे सः अवदत्—
“रामनवमी-पर्वणः शुभ-अवसरे अहं बिहार-प्रदेशस्य जनतायै देशस्य सर्वेभ्यः नागरिकेभ्यश्च हार्दिकाः अभिनन्दनाः शुभाशयाश्च ददामि। मर्यादा-पुरुषोत्तमः श्रीरामः सत्यस्य, न्यायस्य, करुणायाः साहसस्य च प्रतीकः अस्ति। तस्य जीवनं अस्मान् धर्मस्य, कर्तव्यस्य, उच्च-नैतिक-मूल्यानां मार्गे गन्तुं निरन्तरं प्रेरयति।
आगच्छामः वयं तस्य आदर्शान् आत्मसात् कर्तुं, सामञ्जस्यपूर्णं न्यायपूर्णं गौरवशालि भारतं निर्मातुं च दृढं संकल्पं कुर्मः।”
---------------
हिन्दुस्थान समाचार