राष्ट्रिय फैशन प्रौद्योगिकी संस्थानं हस्तशिल्पिभ्यो मिलितः मंचः
जोधपुरम्, 27 मार्चमासः (हि.स.)। राष्ट्रिय फैशन प्रौद्योगिकी संस्थान-जोधपुरस्य पक्षतः द्विदिवसीयः शिल्प-बाजारः शुक्रवासरेण आरभ्य रातानाडा-स्थिते माहेश्वरी-भवने प्रारब्धः। अस्मिन् पश्चिम-बंगाल-, मध्यप्रदेश-, उत्तरप्रदेश- तथा राजस्थान-राज्यानां विविधा
jodhpur


जोधपुरम्, 27 मार्चमासः (हि.स.)। राष्ट्रिय फैशन प्रौद्योगिकी संस्थान-जोधपुरस्य पक्षतः द्विदिवसीयः शिल्प-बाजारः शुक्रवासरेण आरभ्य रातानाडा-स्थिते माहेश्वरी-भवने प्रारब्धः। अस्मिन् पश्चिम-बंगाल-, मध्यप्रदेश-, उत्तरप्रदेश- तथा राजस्थान-राज्यानां विविधाः शिल्पिनः स्वकौशलं प्रदर्शयन्ति। शिल्प-बाजारे गृह- तथा फैशन-संबद्धानां उपस्कराणां संग्रहं दृष्ट्वा आगन्तुकाः विस्मिताः अभवन्, तथा च फैशन-विद्यार्थिनः अपि मार्गदर्शनं प्राप्तवन्तः।

कार्यक्रमस्य उद्घाटनं मोजड़ी-शिल्पे राष्ट्रिय-पुरस्कार-प्राप्तेन मोहनलाल-गुर्जरेण, जोधपुर-बंधन-शिल्पे मोहम्मद-शरीफेण, पीपाड़-डाबू-छाप-शिल्पे मोहम्मद-यासीन-छीपेन च दीपप्रज्वलनेन कृतम्। अस्मिन् अवसरि निफ्ट-जोधपुरस्य निदेशकः प्रो. जीएचएस-प्रसादः उक्तवान् यत् अस्मिन् शिल्प-बाजारे अद्य विभिन्न-राज्यानां हस्तशिल्पिनः स्वकलेन आगन्तुकान् आकर्षयन्ति। एषः कार्यक्रमः निफ्ट् प्रति-वर्षं शिल्पिभिः सह संयुक्तरूपेण आयोज्यते, यतः विविध-राज्यानां शिल्पिनां कृते एकं मंचं प्रदातुं शक्यते।

अस्य शिल्प-बाजारस्य उद्देश्यं विभिन्न-हस्तशिल्प-हस्तकरघ-शिल्पिनां कृते स्वहस्तनिर्मित-वस्तूनां विक्रय-प्रदर्शनयोः अवसरं प्रदातुम् अस्ति। प्रसादेन उक्तं यत् अस्मिन् बाजारे लखनऊ-चिकनकारी, बनारस-क्राफ्ट्, पश्चिम-बंगालस्य कान्था-काशीदाकर्म, कोटा-डोरिया, पोकरण-पट्टू, चित्तौडगढ़स्य अकोला-हस्त-छाप-शिल्प, मध्यप्रदेशस्य चंदेरी, जोधपुरस्य अस्थि-शृङ्ग-शिल्प, बगरू-हस्त-छाप-शिल्प, पीपाड़-डाबू-छाप-शिल्प, जोधपुरस्य चर्म-शिल्प, काशीदाकर्म-क्रोशै, लाख-वलयाः, जूट-शिल्प, चर्म-मोजड़ी, टाई-एण्ड-डाई, केन-बैम्बू-शिल्प तथा आर्ट-मेटल् इत्यादीनि उपलब्धानि सन्ति।

अस्मिन् अवसरे संयुक्त-निदेशकः डॉ. जन्मय-सिंह-हाडा, सीएसी डॉ. अदिति-मेड़तिया, सीआईसी डॉ. अंकुर-सक्सेना सहिताः सर्वे अध्यापकाः उपस्थिताः आसन्। कार्यक्रमस्य संचालनं सह.प्रवक्ता डॉ. शीतल-सोनी इत्यनेन कृतम्।

हिन्दुस्थान समाचार