Enter your Email Address to subscribe to our newsletters

कोलकाता, 28 मार्चमासः (हि.स.)। पश्चिमबंगप्रदेशस्य भ्रमणार्थम् आगतः केन्द्रीयगृहमन्त्री अमितशाहः शुक्रवासरे रात्रौ विलम्बेन कोलकातानगरस्य विमानस्थानके अवतरणात् पूर्वं दुष्टवातावरणकारणात् प्रायः एकघण्टाकालं नभसि भ्रमितुं बाधितः। तीव्रवातप्रवाहः वर्षा च विद्युत्पातश्च कारणत्वेन विमानस्य अवतरणं नियतसमये कर्तुं न शक्यमभवत्।
उक्तं यत् शाहस्य विमानं रात्रौ ११:४० वादने नेताजी सुभाषचन्द्रबोस अन्ताराष्ट्रियविमानस्थानके अवतरणीयम् आसीत्। आकस्मिकरूपेण वातावरणदोषसमुत्थानेन वैमानिकैः अवतरणानुज्ञा न लब्धा। विमानं प्रायः १२:२५ वादने कोलकातानगरस्य आकाशप्रदेशं प्राप्तवान्, किन्तु प्रतिकूलवातावरणस्थितेः कारणात् तद् प्रायः ५५ निमेषान् यावत् नभसि परिवर्तितमार्गेण सञ्चरितम्।
अस्मिन् काले विमानं सुरक्षितदूरत्वं पालनं कृत्वा विविधदिक्षु सञ्चालितम्, एकवारं तु कृष्णनगरदिशं प्रति अपि नीतम्, यावत् वातावरणस्य सामान्यावस्था प्रतीक्षिता। अन्ततः वातावरणे किंचित् सुधारः प्राप्ते सति रात्रौ १:२० वादने विमानं सुरक्षितरूपेण अवतरितम्।
उक्तं यत् निर्वाचनाचारसंहितायाः प्रवृत्तेः कारणात् अस्मिन् अवसरि शाहमहाशयः स्वस्य सामान्यराजकीयविमानस्य स्थाने लघुनिजविमानेन कोलकातां प्राप्तवान्। लघुविमानत्वात् दुष्टवातावरणे विशेषसावधानी आवश्यका आसीत्, तथा च वैमानिकैः सर्वे सुरक्षा मानदण्डाः पालनं कृत्वा अवतरणं कृतम्।
अमितशाहस्य सुरक्षां दृष्ट्वा विमानस्थानके पूर्वमेव कठोरसुरक्षाव्यवस्था कृता आसीत्। भारतीयजनतादलस्य अनेकाः वरिष्ठनेतारः अपि रात्रौ विलम्बपर्यन्तं विमानस्थानके उपस्थिताः आसन्। तेषु राज्यविधानसभायाः विपक्षनेता शुभेन्दु अधिकारी, प्रदेशाध्यक्षः शमिक भट्टाचार्य, केन्द्रीय मन्त्री सुकान्त मजूमदार तथा भाजपा नेता अमित मालवीय प्रमुखाः सन्ति।
उल्लेखनीयम् यत् एकदिनपूर्वं मुख्यमन्त्री ममता बनर्जी अपि समानस्थितिम् अनुभूतवती, यदा तस्याः विमानम् अपि दुष्टवातावरणकारणात् प्रायः डेढघण्टाकालं यावत् नभसि स्थितम् आसीत्। अनन्तरं वातावरणे सामान्यत्वे प्राप्ते सति तस्याः विमानं सुरक्षितरूपेण अवतरितम्। मुख्यमन्त्री अनन्तरं वैमानिकानां सावधानतां कौशलं च प्रशंसितवती।
अत्रान्तरे तीव्रवातवर्षाभ्यां कोलकाता तथा समीपवर्तिषु क्षेत्रेषु जनजीवनम् अपि प्रभावितम्। बहुषु स्थलेषु वृक्षपतनम्, विद्युत्सम्प्रदायस्य व्यवधानः, यातायातस्य च बाधा इति समाचाराः प्राप्ताः।
हिन्दुस्थान समाचार