Enter your Email Address to subscribe to our newsletters

पटनानगरम्, २८ मार्चमासः (हि.स.)। विश्वविख्यातः नालन्दा-विश्वविद्यालयः राजगीरस्थे स्थायीपरिसरे ३१ मार्चमासे द्वितीयं दीक्षान्त-सम्मेलनं आयोजयिष्यते। अस्मिन् ऐतिहासिके अवसरे राष्ट्रपति: विश्वविद्यालयस्य विजिटर द्रौपदी-मुर्मू मुख्यातिथिरूपेण सहभागं करिष्यति।
अयं समारोहः विशेषः भविष्यति, यतः नव-उद्घाटिते स्थायीपरिसरे आयोज्यमानं प्रथमं दीक्षान्त-सम्मेलनम् अस्ति। आधुनिक-परिसरस्य उद्घाटनं २०२४ जूनमासे प्रधानमन्त्री नरेन्द्र-मोदी कृतवान्। विश्वविद्यालयस्य पुनरुद्धारे द्वितीयम् एतत् दीक्षान्त-सम्मेलनम् अस्ति, प्रथमं च २०१६ तमे वर्षे आयोजितम्।
राष्ट्रपति द्रौपदी-मुर्मू राजगीरं नालन्दा-विश्वविद्यालयं च प्रति राष्ट्रपति-रूपेण प्रथमवारं भ्रमणं करिष्यति। अस्मिन् समये से: दीक्षान्त-भाषणं दास्यति, छात्रेभ्यः उपाधयः प्रदास्यति, तथा मेधावीछात्रेभ्यः स्वर्ण-पदकेन सम्मानं करिष्यति। अपि च, विश्वविद्यालयस्य नवनिर्मितं २०००-सीट-संपन्नं सभागारं ‘विश्वमित्रालयम्’ उद्घाटयिष्यति।
समारोहे परास्नातकेभ्य: च विद्यावारिधि-कार्यक्रमस्य छात्रेभ्यः व्यक्तिगतरूपेण प्रमाणपत्र-प्रदानं भविष्यति। एतत् दीक्षान्त-सम्मेलनम् अन्ताराष्ट्रिय-सहभागितायुक्तं भविष्यति, यत्र अर्जेण्टिना-वियतनाम-भूटान-इण्डोनेशिया-केन्या-लाओस-म्यांमार-सर्बिया-घाना-थाईलैंड्-नेपाल-बांग्लादेश -जिम्बाब्वे-देशानां छात्राः सम्मिलिष्यन्ति।
अस्मिन् अवसरे आहत्य १० पीएच.डी.उपाधयः ३६ स्वर्ण-पदकानि च प्रदास्यन्ते, ये विश्वविद्यालयस्य वैश्विक-शैक्षणिक-प्रतिष्ठायाः वृद्धिं प्रदर्शयन्ति।
हिन्दुस्थान समाचार