Enter your Email Address to subscribe to our newsletters

बीकानेरनगरम्, २८ मार्चमासः (हि.स.)। इतिहास-क्षेत्रे उत्कृष्ट-योगदानस्य कृते बीकानेर-निवासिनी इतिहासकारा डॉ.मेघना-शर्मा ग्वालियर-नगरे आयोजितायां “भारतस्य अद्भुत-परम्परा-कला-संस्कृति-पुरातत्त्व-पर्यावरण” विषयक द्विदिवसीय-राष्ट्रीय-संगोष्ठ्यां ‘श्रीमती-विद्या-श्रीवास्तव-मेमोरियल-अवार्ड’ इत्यनेन सम्मानिता। एषा संगोष्ठी ‘इतिहास’ इत्यस्य मध्य-भारत-प्रदेशात् प्रकाशित-अन्ताराष्ट्रिय-जर्नल तथा मध्य-भारतीय-इतिहास-शोध-संस्थानस्य संयुक्ततया आयोजिता आसीत्।
एषः पुरस्कारः इतिहास-क्षेत्रे द्वाविंशति-वर्षीय-शोध-प्रकाशनानां, विदेश-विश्वविद्यालयेषु उद्बोधनानां, इतिहास-नारी-अध्ययन-आधारित-निरन्तर-पुस्तक-प्रकाशनानां तथा विविध-विषयेषु शोध-निर्देशनस्य अतुलनीय-उपलब्धीनां दृष्ट्या प्रदत्तः। संगोष्ठी-मञ्चात् डॉ.मेघना-शर्मा-इत्यस्याः अभिनन्दन-पत्रं संगोष्ठी-संयोजकेन डॉ.विनय-श्रीवास्तवेन पठितम्।डॉ.मेघना-शर्मा अधुना बीकानेर-स्थिते महाराजा-गंगा-सिंह-विश्वविद्यालये इतिहास-विभागस्य एसोसिएट-प्रोफेसर तथा विभागाध्यक्ष-रूपेण कार्यरताऽस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता