Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 28 मार्चमासः(हि.स.)। मुख्यमन्त्री रेखा गुप्ता शनिवासरे इंडिया इनोवेट्स 2026 नाम्नि विश्वस्य महान् हैकाथॉन-कार्यक्रमे, यः भारत मण्डपम् इत्यत्र आयोजितः आसीत्, सहभागी भूत्वा देशस्य सर्वतः आगतानां युवानां उत्साहं वर्धितवती। अस्मिन् अवसरे सा उक्तवती यत् दिल्ली-सरकारः शासन-प्रणाल्यां नवोन्मेषस्य स्थानं दास्यति।
अस्मिन् कार्यक्रमे सहस्रशः युवान:, प्रतिभागिनः, प्रतिनिधयश्च सहभागी अभवन्। अस्य वर्षस्य विषयः कृत्रिमबुद्धिः, रोबोट-प्रौद्योगिकी तथा जनहितसम्बद्धाः नूतन-विचाराः आसन्।
अस्मिन् अवसरे मुख्यमन्त्री रेखा गुप्ता उक्तवती यत् अत्र उपस्थिताः युवा: केवलं प्रौद्योगिक्यां सीमिताः न सन्ति, अपितु ते नगराणां उन्नयनाय, लोकतन्त्रस्य सुदृढीकरणाय, समाजस्य च अधिकसामर्थ्यवर्धनाय ठोस-समाधानानि प्रस्तौन्ति।
सा उक्तवती यत् एषा एव पीढी अस्ति या विचारान् नवोन्मेषेषु, नवोन्मेषान् प्रभावे परिवर्तयितुं समर्था अस्ति। देशस्य सर्वतः आगतानां प्रतिभाशालिनां युवानां ऊर्जा, कौशलं संकल्पश्च भारतस्य महती सम्पदा अस्ति। सा अपि उक्तवती यत् भारतः विश्वे युवदेशरूपेण प्रसिद्धः अस्ति, यत्र षष्टिप्रतिशताधिकाः जनाः युवा: सन्ति। एषा विशाल-जनसंख्या भारतस्य महान् बलम् अस्ति, एते एव युवा: देशं वैश्विक-मञ्चे नवीन-उच्चतां प्रति नयिष्यन्ति।
मुख्यमन्त्री रेखा गुप्ता उक्तवती यत् अस्मिन् हैकाथॉन-कार्यक्रमे एक-कोट्यधिक-प्रतिभागिषु चयनिताः पञ्च-सहस्राधिकाः युवा: वास्तवतः भारतस्य डिजिटल-भविष्यस्य प्रतिनिधयः सन्ति, तेषां चिन्तनं भविष्ये शासनस्य, समाजस्य, अर्थव्यवस्थायाश्च दिशां निर्धारयिष्यति। सा युवान् प्रति “दिल्ली 2.0” निर्माणस्य आह्वानं कृतवती।
रेखा गुप्ता उक्तवती यत् एषा दिल्ली निर्मीयेत या नवोन्मेषेण प्रेरिता, समावेशेन सशक्ता च स्यात्, यत्र प्रौद्योगिक्या सह विश्वासस्य अपि समं महत्त्वं दत्तं भवेत्। सा उक्तवती यत् दिल्ली-सर्वकारो यूनां विचारान् नवोन्मेषांश्च शासन-प्रणाल्या सह संयोजयितुं प्रतिबद्धा अस्ति, येन प्रौद्योगिक्या माध्यमेन नागरिकानां जीवनं सरलम्, पारदर्शकम्, प्रभावकरं च भवेत्।
---------------
हिन्दुस्थान समाचार