Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २८ मार्चमासः (हि.स.)।विधि-न्याय-मन्त्रालयः रविवासरे विज्ञान-भवने टेली-लॉ-प्रयत्नस्य अन्तर्गतं भव्यं राष्ट्रियपरामर्शं आयोजयिष्यति। अस्य परामर्शस्य मुख्यं लक्ष्यं प्रौद्योगिक्या नैयायिक-सेवानां दृढीकरणं कर्तुं तथा अन्तिम-पक्षस्थं व्यक्तिपर्यन्तं न्यायस्य प्रापणं सुनिश्चितं कर्तुं अस्ति।
मन्त्रालयेन उक्तं यत् अस्य राष्ट्रियपरामर्शस्य मुख्यातिथिः उपराष्ट्रपति: सी.पी.राधाकृष्णन् भविष्यति। कार्यक्रमे विशिष्टातिथिरूपेण विधि-न्याय-राज्यमन्त्री (स्वतंत्र-प्रभार) अर्जुन-राममेघवालेन सह अन्ये गणमान्यजनाः अपि उपस्थिताः भविष्यन्ति।
अयं परामर्शः ‘दिशा’योजनान्तर्गतम् आयोज्यते, यत्र डिजिटल-सशक्तीकरणस्य नूतनाः आयामाः प्रदर्शयिष्यन्ति। अस्मिन् समये ‘न्यायसेतु:’ इत्यस्य ए.आई.-संचालितं चैटबॉट तथा तस्य मास्कट् उद्घाट्यते। एषः नागरिकान् तेषां नैयारिकाधिकाराणां बोधाय, विवाद-समाधान-तन्त्रं प्रति प्रापयितुं च डिजिटल-संयोजक-सेतुरूपेण साहाय्यं करिष्यति।२०२५–२६ वर्षस्य हेतु विशेष-पुस्तिकाया: “लाभार्थिनां ध्वनि:” लोकार्पणं भविष्यति, यस्मिन् टेली-लॉ-सेवायाः लाभग्राहकाणां प्रेरक-कथाः सङ्गृहीताः स्युः। दिल्ली-राष्ट्रीय-विधि-विश्वविद्यालयेन (एनएलयू) सह संयुक्तेन यूनां ग्रामिणजनानां च हेतु जटिल-नैयारिक-संकल्पनाः सरलतया प्रस्तुता: कथासूचिका-कॉमिक्-पुस्तिकाः प्रदर्श्यन्ते।
राष्ट्रीय-गीत ‘वन्दे मातरम्’ १५०वर्षपरिपूर्णे विशेष-सांस्कृतिक-प्रस्तुति: स्थानिय-कलाकारैः प्रदास्यते।
परामर्शे सम्पूर्ण-देशेभ्यः टेली-लॉ-पैनल-अधिवक्तृभि:, ग्राम-स्तरीय-उद्यमिभि: च सह प्रत्यक्ष-संवादः भविष्यति। दिल्ली-मुख्य-विधि-महाविद्यालयैः प्रदत्ताः नि:शुल्क-कानूनी-सेवायाः विषये विशेष-खण्डः आयोज्यते। विशेषज्ञ-नीतिनिर्मातृणां विचारानुसारं श्वेतपत्रं प्रकाशितं भविष्यति, यत् भविष्ये कानूनी-नीतिषु मार्गदर्शनं दास्यति।
अस्मिन् आयोजने उच्चतम-न्यायालय-ई-कमेटी-नालसा, बार-एसोसिएशनस्य सदस्याः, विधि-संस्थानस्य छात्राः च १२०० प्रत्यक्ष-संलग्नाः भविष्यन्ति, यद्यपि सम्पूर्ण-देशात् सहस्राधिकाः हितधारकाः अन्तर्जालमाध्यमेन संलग्नाः भविष्यन्ति। अयं राष्ट्रियपरामर्शः न्यायव्यवस्थायाम् असमानतां दूरयितुं, प्रौद्योगिक्याः माध्यमेन ‘सर्वेभ्यः न्यायः’ संकल्पं सिद्धयितुं क्रान्तिकारकं प्रयासः भविष्यति।
हिन्दुस्थान समाचार