Enter your Email Address to subscribe to our newsletters

कोकराझारः (असमः), 28 मार्चमासः(हि.स.)। असमविधानसभानिर्वाचनकाले स्वच्छं निष्पक्षं शान्तिपूर्णं च मतदानं सुनिश्चितुं कोकराझारजिलायां जिलाधिकारिणा पी उदयप्रवीणेन ‘शुष्कदिनः’ घोषितः। निर्गतादेशानुसारं एप्रिलमासस्य सप्तमदिनस्य सायं पञ्चवादनात् आरभ्य नवमदिनस्य सायं पञ्चवादनपर्यन्तं अर्थात् मतदानसमाप्तेः पूर्वं निर्दिष्टेषु अष्टचत्वारिंशत् घण्टासु जिल्लायां मद्यविक्रयवितरणसेवनानि सर्वथा निषिद्धानि भविष्यन्ति।
अयं आदेशः जनप्रतिनिधित्वअधिनियमः १९५१ तथा असम आबकारीनियमाः इत्येतयोः अधीनं निर्गतः। तेन सह एव मेमासस्य चतुर्थदिनं मतगणनादिनत्वेन अपि ‘शुष्कदिनः’ घोषितः अस्ति यः मतगणनाप्रक्रियाया समाप्तिपर्यन्तं प्रभावी भविष्यति। यदि पुनर्मतदानस्य स्थिति उत्पद्यते तर्हि तस्मिन् दिने अपि एषः प्रतिबन्धः प्रवर्तिष्यते।
निर्धारितावधौ जिल्लायाः सर्वे स्थूलभाण्डागाराः आईएमएफएल खुद्र ‘ऑफ’ ‘ऑन’ विक्रयकेंद्राणि पथिकाश्रयाः उपहारगृहाणि च देशीयमद्यविक्रयस्थानानि पूर्णतया निरुद्धानि भविष्यन्ति। तथा च निजीव्यक्तिभिः मद्यसंग्रहः अपि नियन्त्रितः भविष्यति तथा अनुज्ञापत्ररहितस्थानेषु संग्रहस्य विरुद्धं कठोरकार्यवाही क्रियिष्यते।
प्रशासनेन स्पष्टं कृतं यत् आदेशस्य उल्लङ्घने असम आबकारीअधिनियमः तथा निर्वाचननियमाः अधीनं कठोरदण्डात्मककार्यवाही भविष्यति। जिलाप्रशासनेन सर्वेभ्यः सम्बद्धपक्षेभ्यः निर्देशपालनं तथा निर्वाचनकाले विधिव्यवस्थारक्षणे सहयोगः कर्तव्यः इति आह्वानं कृतम्।
हिन्दुस्थान समाचार