Enter your Email Address to subscribe to our newsletters

चलच्चित्र-वाणिज्ये प्रवर्तमाने तीव्रे प्रतिस्पर्धा-परिदृश्ये निर्मात्री एकता कपूर महत्त्वपूर्णं निर्णयं कृत्वा ‘भूत बंगला’ इति चलच्चित्रस्य प्रदर्शने तिथिं परिवर्तितवती। पूर्वं एषा चलचित्रिका १० अप्रैल २०२६ दिने प्रदर्शयितुं निश्चितवती आसीत्, किन्तु अधुना सा एकसप्ताहं अग्रे स्थाप्य १७ अप्रैल २०२६ इति कृतम्।
वार्तानुसारं एषः निर्णयः ‘धुरंधर २ द रिवेंज’ इति चलच्चित्रेन सह संघर्षं परिहर्तुं कृतः, यः अद्यतनसमये नाट्यगृहेषु अत्युत्तमं प्रदर्शनं करोति।
व्यापार-सूत्राणि वदन्ति यत् ‘धुरंधर २’ इत्यस्य वाणिज्ये प्रभुत्वं अत्यन्तं दृढं वर्तते, येन अधिकांश-नाट्यगृहेषु तस्यैव आधिपत्यं दृश्यते। अतः नूतन-चलच्चित्राणां कृते पर्याप्त-प्रदर्शन-पट्टिकाः लब्धुं कठिनं जातम्। एतत् दृष्ट्वा ‘भूत बंगला’ इत्यस्य निर्मातारः प्रदर्शन-स्थगनं श्रेष्ठम् इति अमन्यन्त। ते किमपि जोखिमं न ग्रहीतुं इच्छन्ति।
चलच्चित्र-उद्योग-संबद्ध-सूत्राणां मते एषः निर्णयः अत्यन्तं युक्तिसंगतः मन्यते, येन चलचित्रस्य व्यापार-परिणामे नकारात्मकः प्रभावः न भविष्यति। शोभा कपूर अपि अस्य निर्णयस्य समर्थनं कृतवती।
पूर्वमपि बहवः प्रमुख-चलच्चित्राः ‘धुरंधर २’ सह संघर्षं परिहर्तुं स्व-प्रदर्शन-तिथिं परिवर्तितवन्तः, येन अस्य चलचित्रस्य वाणिज्य-प्रभावः ज्ञायते।
उल्लेखनीयम् अस्ति यत् ‘भूत बंगला’ इत्यस्य माध्यमेन अक्षय कुमार तथा प्रियदर्शन इत्ययोः प्रसिद्धा युग्मा प्रायेण१४ वर्षाणां अनन्तरं पुनः एकत्र आगच्छति। अस्मिन् चलचित्रे तब्बू, परेश रावल तथा राजपाल यादव अपि प्रमुख-भूमिकासु दृश्यन्ते, येन दर्शकेषु उत्साहः वर्धितः अस्ति।
--------------
हिन्दुस्थान समाचार