जेवरविमानस्थानकात् बागपताय लप्स्यते उड्डयनम्
बागपतम्, 28 मार्चमासः (हि.स.)। पश्चिमोत्तरप्रदेशस्य बागपत-जनपदः अधुना शीघ्रं विकासमार्गं प्रति अग्रसरः भवितुम् आरब्धवान् अस्ति। उत्तमा संयोजकता विशालाः आधारभूतसंरचनापरियोजनाश्च कारणत्वेन आगामिषु कालेषु अयं प्रदेशः व्यापारकृषिउद्योगयोः नूतनकेन्द्र
जेवर एयरपोर्ट उद्धघाटन करते प्रधानमंत्री


बागपतम्, 28 मार्चमासः (हि.स.)।

पश्चिमोत्तरप्रदेशस्य बागपत-जनपदः अधुना शीघ्रं विकासमार्गं प्रति अग्रसरः भवितुम् आरब्धवान् अस्ति। उत्तमा संयोजकता विशालाः आधारभूतसंरचनापरियोजनाश्च कारणत्वेन आगामिषु कालेषु अयं प्रदेशः व्यापारकृषिउद्योगयोः नूतनकेन्द्रं भविष्यति।

बागपत्-जनपदस्य प्रमुखा शक्ति तस्य सुदृढा संयोजकता अस्ति। ईस्टर्न-पेरिफेरल-एक्सप्रेसवे तथा दिल्ली-मेरठ-एक्सप्रेसवे इत्यादिभिः आधुनिकमार्गैः अयं पूर्वमेव संयोजितः अस्ति।

दिल्ली-एनसीआर-प्रदेशस्य अयं बागपत्-जनपदः नोएडा-अन्ताराष्ट्रिय-विमानस्थानक-जेवर इत्यनेन सह संयोजनं प्राप्य अधुना तीव्रगत्या विकासं गमिष्यति। अयं जनपदः इन्दिरागान्धी-अन्तर्राष्ट्रीय-विमानस्थानकस्य जेवर-विमानस्थानकस्य च मध्ये स्थितः सन् द्विविध-विमानसंयोजनस्य लाभं प्राप्स्यति।

बागपत्-विकास-प्राधिकरणस्य जेई अजितकुमारः विकासशर्मा च वदतः यत् अनेन प्रदेशे मालवाहनस्य यातायातस्य च गत्युत्कर्षः भविष्यति। बागपत् शनैः शनैः व्यापार-उद्योगयोः केन्द्ररूपेण विकसितः भविष्यति। अत्र वेयरहाउसिंग् सप्लाई-चेन-सम्बद्धेषु क्षेत्रेषु महानि निवेशानि द्रष्टुं शक्यन्ते।

कृषिक्षेत्रे अपि अस्य सकारात्मकः प्रभावः भविष्यति। अस्य जनपदस्य कृषकाः अधुना केवलं स्थानीय-बाजारपर्यन्तं न सीमिताः भविष्यन्ति। इक्षुः, शाकानि, दुग्धोत्पादनानि च विमान-कार्गो-द्वारा देशविदेशेषु प्रेषयितुं शक्यन्ते। अनेन कृषकाणां कृते उत्तममूल्यप्राप्तेः सम्भावना वर्तते इति प्रशासनं मन्यते, येन तेषां आयवृद्धिः भविष्यति।

कृषकाः आधुनिकी-कृषिपद्धतिम् निर्यातक्षेत्रं च प्रति अधिकं ध्यानं दास्यन्ति, येन गुणवत्तायुक्तं उत्पादनं कर्तुं शक्नुवन्ति।

दिल्ली-एनसीआर-प्रदेशे नोएडा, गाजियाबाद, गुरुग्राम इत्यादिषु महागेषु नगरेषु भूमेः मूल्यवृद्धेः कारणेन बागपत्-जनपदः उद्योगपतिनां दृष्टौ महत्त्वपूर्णः केन्द्रः जातः अस्ति। चाहत्-एक्सपोर्ट्-संस्थायाः स्वामी संजयगुप्तः वदति यत् उद्योगपतयः उत्तमसंयोजकता किफायतीभूमिश्च दृष्ट्वा बागपत् प्रति आकर्षिताः भवन्ति।

बागपत्-जनपदे लघु-मध्यम-उद्योगैः सह महान्तः उद्योगाः अपि स्थापिताः सन्ति। अचलसम्पत्तिक्षेत्रे अपि विकासस्य संकेताः दृश्यन्ते। निवेशाय सर्वेषां दृष्टिः बागपत् उपरि एव केन्द्रिता अस्ति। अत्र भूमेः मूल्यं आकस्मिकरूपेण वर्धितम् अस्ति, यस्य प्रत्यक्षलाभः स्थानीयजनानां भवति।

हिन्दुस्थान समाचार