दिल्ली-नगरे षोडशतम्ययाः भारत-प्रोबायोटिक-संगोष्ठ्याः समापनम्
नवदिल्ली, २८ मार्चमासः (हि.स.)। दिल्ली-स्थिते अखिल-भारतीय-आयुर्विज्ञान-संस्थाने (एम्स) जेएलएन-सभागारे आयोजितस्याः द्विदिवसीयायाः षोडशतम्याः भारत-प्रोबायोटिक-संगोष्ठ्याः समापनं शनिवासरे अभवत्। गट-माइक्रोबायोटा-एण्ड-प्रोबायोटिक-साइन्स-फाउण्डेशन-इत्यस
प्रोबायोटिक संगोष्ठी


नवदिल्ली, २८ मार्चमासः (हि.स.)। दिल्ली-स्थिते अखिल-भारतीय-आयुर्विज्ञान-संस्थाने (एम्स) जेएलएन-सभागारे आयोजितस्याः द्विदिवसीयायाः षोडशतम्याः भारत-प्रोबायोटिक-संगोष्ठ्याः समापनं शनिवासरे अभवत्। गट-माइक्रोबायोटा-एण्ड-प्रोबायोटिक-साइन्स-फाउण्डेशन-इत्यस्य पक्षतः आयोजितायाः अस्याः संगोष्ठ्याः मुख्य-विषयः “आन्त्र-माइक्रोबायोम तथा प्रोबायोटिक्सः जन्मात् आरभ्य शतायु-व्यक्तिषु यावत् प्रभावः” इति आसीत्। अस्मिन् अवसरे मुख्यातिथिरूपेण नीति-आयोगस्य सदस्यः राजीव-गौबा निवारक-स्वास्थ्य-परिचर्यायां आन्त्रस्थ-सूक्ष्मजीवानां निर्णायक-भूमिकायाः उपरि बलं दत्तवान्।

तेन देशे खाद्यान्नेषु आगच्छन्तेषु तीव्र-परिवर्तनेषु गम्भीरा चिन्ता व्यक्ता। तेन उक्तं यत् क्विक-कॉमर्स-मञ्चानां विज्ञापनानां च कारणेन अति-प्रसंस्कृत-खाद्य-पदार्थानां उपभोगः वर्धितः अस्ति, यत् पारम्परिकं पोषक-आहारं पृष्ठे नयति। देशे रोगभारस्य प्रायः ५६.४ प्रतिशतं भागः अस्वास्थ्यकर-असंतुलित-आहारस्य कारणेन भवति। यदि एताः प्रवृत्तयः न निरुद्धाः, तर्हि तेषां सूक्ष्मजैविक-परिणामाः भविष्ये अत्यन्तं गम्भीराः भवितुमर्हन्ति।

स्वास्थ्यम् आर्थिक-प्रगत्या सह संयोजयन् गौबा उक्तवान् यत् भारतस्य जनसांख्यिकीय-लाभांशः तदा एव सफलः भविष्यति यदा कार्यबलं स्वस्थं भवेत्। आयुष्मान-भारत तथा पीएम-जेएवाई-योजनाभ्यां स्वास्थ्ये वैयक्तिक-व्ययः ६२.६ प्रतिशतात् न्यूनीभूत्वा ३९.४ प्रतिशतं जातः, येन सामान्य-परिवाराणां कृते १.२५ लक्ष-कोटि-रूप्यकाणां अवशेषणम् अभवत्। तेन वंचित-समुदायेषु विशेषज्ञ-परिचर्यां प्रापयितुं एआई-डाटा-विश्लेषणस्य टेलीमेडिसिन-इत्यस्य च व्यापक-प्रयोगस्य उपरि बलं दत्तम्।

माइक्रोबायोम-विज्ञानस्य भविष्यं चर्चयन् गौबा सीआरआईएसपीआर-सक्षम-इञ्जीनियरिङ्ग तथा सिंथेटिक-बायोलॉजी-इत्यादिनाम् उदयमान-क्षेत्राणाम् उल्लेखं कृतवान्, ये सम्यक्-चिकित्सायां क्रान्तिकारी-परिवर्तनं कर्तुं शक्नुवन्ति। तेन वैज्ञानिकानां चिकित्सकानां च आह्वानं कृतम् यत् ते प्रोबायोटिक-विपणे प्रसृतानां मिथ्या-सूचनानां विरुद्धं स्व-विश्वसनीयताम् उपयुज्य यथार्थ-सूचनां प्रसारयन्तु। पारम्परिक-भारतीय-पदार्थानां समृद्ध-परम्परां आधुनिक-जीनोमिक-अनुसन्धानैः सह संयोज्य वैश्विक-नेतृत्वं कुर्वन्तु। सुरक्षित-प्रभावी-उत्पाद-विकासाय शिक्षाजगतः उद्योगस्य नियामकानां च मध्ये दृढं समन्वयं स्थापयन्तु।

गौबा युवा-अनुसन्धानकर्तॄणां नवोन्मेषान् प्रशंसितवान् तथा विश्वासं व्यक्तवान् यत् एषः मंचः माइक्रोबायोम-विज्ञान-क्षेत्रे भारतं वैश्विक-मानचित्रे दृढतया स्थापयिष्यति।

हिन्दुस्थान समाचार