Enter your Email Address to subscribe to our newsletters

जयपुरनगरम्, २८ मार्चमासः (हि.स.)। राजस्थान-आवासन-मण्डलस्य समृद्धि-अपार्टमेंट-योजनायै ‘स्कॉच-गोल्ड-अवार्ड’ प्राप्तः। मण्डलस्य पक्षतः आवासन-आयुक्ता डॉ.रश्मि-शर्मा शनिवासरे दिल्ली-नगरे इंडिया-हैबिटेट-सेंटर-स्थले आयोजिते समारोहे एतत् पुरस्कारं गृहीतवती।आवास-आयुक्ता डॉ.रश्मि-शर्मा उक्तवती यत् मण्डलस्य राष्ट्रिय-स्तरे सम्मान-प्राप्त्या सामान्य-जनस्य मध्ये मण्डलस्य प्रतिष्ठा पुनः स्थापिताऽभवत्। तया ‘स्कॉच-गोल्ड-अवार्ड’ प्राप्तौ प्रसन्नता व्यक्ता तथा मण्डलस्य सम्पूर्ण-समूहं प्रति अभिनन्दनं प्रदत्तम्। तया उक्तं यत् समृद्धि-आवासीय-योजनायां द्विविधाः फ्लैट्-प्रकाराः निर्मिताः। ९६० वर्ग-फीट-परिमाणस्य प्रकोष्ठ-मूल्यं ३३ लक्ष-रूप्यकाणि अनुमानितम् आसीत्, ११०० वर्ग-फीट-परिमाणस्य च ३६ लक्ष-रूप्यकाणि। किन्तु मण्डलेन समान-उच्च-गुणवत्तया ९६० वर्ग-फीट-परिमाणं प्रकोष्ठं ३१ लक्ष-रूप्यकेषु, ११०० वर्ग-फीट-परिमाणं ३५ लक्ष-रूप्यकेषु प्रदत्तम्।
तया उक्तं यत् सम्प्रतिकाले राज्य-सर्वकारेण आयोजिते शहरी-सेवा-शिविरे नगरीय-विकास-आवासन-मन्त्री झाबर-सिंह-खर्रा ‘समृद्धि-अपार्टमेंट’ योजनायाः १५९ आवंटितेभ्यः आवंटन-पत्राणि वितरितवान्। डॉ.शर्मा उक्तवती यत् राजस्थान-हाउसिंग-बोर्ड-इत्यनेन स्वीयासु योजनासु गुणवत्ता, पारदर्शिता, समयबद्धता च प्राधान्येन स्वीक्रियन्ते। ‘समृद्धि-अपार्टमेंट’ परियोजना सामान्य-नागरिकेभ्यः न्यून-दरेषु आधुनिक-सुविधा-युक्त-आवास-प्रदानस्य सफलम् उदाहरणम् अस्ति।
तया उक्तं यत् संघः अधुना पारम्परिक-निर्माणात् अग्रे गत्वा तकनीकी-नवोन्मेष-नागरिक-सुविधा-केंद्रित-परियोजनासु कार्यं करोति। उल्लेखनीयम् यत् अतीते द्विवर्षयोः मण्डलाय फाउन्टेन-स्क्वायर-प्राङ्गणम्, एक्सपोजिशन- प्राङ्गणम् इत्यादिभ्यः आईबीसी-पुरस्कारः, मण्डल-मुख्यालयाय ऊर्जा-मन्त्रालयेन भारत-सर्वकारस्य बीईई-पञ्च-स्टार-रेटिंग-पुरस्कारः, माही-योजनायै नारोडको-पुरस्कारः तथा एसएस-रेजीडेन्सी-परियोजनायै इंडियन-कंक्रीट-इन्स्टिट्यूट-पुरास्कारः अपि प्राप्ताः। अस्मिन् अवसरे मुख्य-अभियन्ता अमित-अग्रवालः, तेजवीर-सिंह-मीणा अन्ये च अधिकारिणः उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता