Enter your Email Address to subscribe to our newsletters




खूंटी, 28 मार्चमासः (हि.स.)। शनिवासरे उपराष्ट्रपतिः सीपी-राधाकृष्णनः झारखंड-राज्यस्य खूंटी-जिले स्थितं भगवान् बिरसा मुंडा इत्यस्य जन्मस्थानं उलिहातु-ग्रामं गतवान्। तेन सह झारखंड-राज्यस्य राज्यपालः संतोष कुमार गंगवार अपि उपस्थितः आसीत्।उपराष्ट्रपतिः राज्यपालः च उलिहातुं प्राप्त्य भगवान् बिरसा-मुण्डा-प्रतिमायां माल्यार्पणं कृत्वा श्रद्धांजलिं अर्पितवन्तौ। अनन्तरं तौ बिरसा-मुण्डस्य वंशजान् मिलित्वा तान् स्मृतिचिह्नैः सम्मानितवन्तौ। एषः कार्यक्रमः श्रद्धा-सम्मानयोः वातावरणे सम्पन्नः।
स्वस्य यात्रायां उपराष्ट्रपतिः तत्र उपस्थितैः बालकैः सह संवादं कृतवान्। सः तान् एकाग्रतया अध्ययनं कर्तुं, स्वलक्ष्यं निर्धारयितुं, जीवनस्य उन्नतिं प्रति प्रयत्नं कर्तुं च प्रेरितवान्। अनन्तरं सः बिरसा-कॉम्प्लेक्सं गतवान्, यत्र पुनः बिरसा-मुण्डस्य प्रतिमायां पुष्पाणि अर्पितवान्। तत्र सः स्थानीय-ग्रामवासिभिः सह संवादं कृत्वा तेषां समस्याः स्थितिं च अवगतम्।
अस्य पूर्वं उपराष्ट्रपतेः आगमनसमये उदग्रयान-स्थले जिला-प्रशासनेन तस्मै गार्ड-ऑफ-ऑनर् प्रदत्तः। अस्मिन् अवसरि राज्यस्य स्वास्थ्य-मन्त्री डॉ. इरफान अंसारी राज्यपालेन सह उपराष्ट्रपतिं पुष्पगुच्छेन स्वागतं कृतवान्। कार्यक्रमे उपायुक्ता आर्. रॉनिटा तथा पुलिस-अधीक्षकः मनीष-टोप्पो सहिताः अनेकाः प्रशासनिक-अधिकारी उपस्थिताः आसन्।
अस्य कार्यक्रमस्य अन्येषु गणमान्येषु अतिथिषु राज्यसभायाः उपसभापतिः हरिवंश नारायण सिंह, उपराष्ट्रपतेः सचिवः अमित-खरे च प्रमुखतया सम्मिलितौ।
उपराष्ट्रपतेःइदं भ्रमणम् आदिवासी-गौरवस्य तथा स्वातन्त्र्य-संग्रामस्य महानायकस्य बिरसा-मुण्डस्य प्रति श्रद्धांजलिः इति दृष्ट्या अपि महत्त्वपूर्णः अस्ति। अस्य माध्यमेन तस्य विचाराः योगदानं च नूतन-संततिं प्रति प्रसारयितुं प्रयत्नः कृतः इति मन्यते।----------------
हिन्दुस्थान समाचार