उपराष्ट्रपतिः सी.पी.राधाकृष्णन् राँची-नगरं प्राप्तवान्, उलिहातु-ग्रामे बिरसा-मुण्डाय श्रद्धाञ्जलिं दास्यति, आईआईएम-संस्थायाः दीक्षान्त-समारोहे च सहभागी भविष्यति
राँचीनगरम्, २८ मार्चमासः (हि.स.)। उपराष्ट्रपतिः सी.पी.राधाकृष्णन् शनिवासरे भारतीय-वायु-सेनायाः विशेष-विमानेन राँची-नगरं प्राप्तवान्। तस्य विमानम् बिरसा-मुण्डा-विमानतले अवतीर्णम्, यत्र तस्य भव्यं स्वागतमभवत्। अस्मिन् अवसरे झारखंड-राज्यस्य राज्यपालः
उपराष्ट्रपति का स्वागत करते राज्यपाल


रक्षा राज्य मंत्री सहित अन्य राष्ट्रपति का स्वागत करते


राँचीनगरम्, २८ मार्चमासः (हि.स.)। उपराष्ट्रपतिः सी.पी.राधाकृष्णन् शनिवासरे भारतीय-वायु-सेनायाः विशेष-विमानेन राँची-नगरं प्राप्तवान्। तस्य विमानम् बिरसा-मुण्डा-विमानतले अवतीर्णम्, यत्र तस्य भव्यं स्वागतमभवत्। अस्मिन् अवसरे झारखंड-राज्यस्य राज्यपालः सन्तोष-कुमार-गंगवारः, रक्षा-राज्यमंत्री संजय-सेठः, मन्त्री सुदिव्य-कुमार-सोनू सहिताः बहवः गणमान्य-व्यक्तयः उपस्थिताः आसन्।

उपराष्ट्रपतिपदस्य दायित्वं स्वीकृत्य अनन्तरम् एषः तस्य झारखंड-राज्यस्य प्रथमः प्रवासः अस्ति। विमानतले उपस्थितैः अधिकारिभिः नेतृभिश्च तस्य हार्दिकं स्वागतं कृत्वा अभिनन्दनं प्रदत्तम्।

राँची-नगरं प्राप्ते: अनन्तरम् उपराष्ट्रपतिः हेलिकॉप्टर-विमानेन खूंटी-जनपदस्य उलिहातु-ग्रामं प्रति प्रस्थितवान्। एषः ग्रामः महान् स्वातन्त्र्य-सेनानी भगवत: बिरसा-मुण्डाया: जन्मस्थानम् अस्ति। तत्र सः बिरसा-मुण्डाया: प्रतिमायां माल्यार्पणं कृत्वा तस्मै श्रद्धाञ्जलिं अर्पयिष्यति तथा तस्य परिजनैः सह अपि मिलिष्यति।

ततः परं उपराष्ट्रपतिः पुनः राँची-नगरं प्रत्यागत्य भारतीय-प्रबन्धन-संस्थानस्य (आईआईएम्), राँची इत्यस्य पञ्चदश-वार्षिक-दीक्षान्त-समारोहे सहभागी भविष्यति। अस्मिन् समारोहे सप्त मेधावी-छात्रेभ्यः पदकानि उपाधयश्च प्रदास्यन्ते, यदा तु समग्रेण ५५८ छात्रेभ्यः उपाधयः वितरिताः भविष्यन्ति।

अस्मिन् महत्त्वपूर्ण-कार्यक्रमे केन्द्रीय-शिक्षामन्त्री धर्मेन्द्र-प्रधानः, राज्यसभायाः उपसभापतिः हरिवंश-नारायण-सिंहः, झारखंड-राज्यस्य मुख्यमन्त्री हेमन्त-सोरेनः सहिताः बहवः प्रमुखाः व्यक्तयः उपस्थिताः भविष्यन्ति।

उल्लेखनीयं यत् सी. पी. राधाकृष्णनः अस्मात् पूर्वं झारखंड-राज्यस्य राज्यपालरूपेण अपि स्वसेवां दत्तवान्।

हिन्दुस्थान समाचार / अंशु गुप्ता