पीएम जन आरोग्य योजनान्तर्गते समग्रे देशे 229अधिक36सहस्रं चिकित्सालयाः पैनलबद्धाः - प्रताप राव जाधवः
नव दिल्ली, 28 मार्चमासः (हि.स.)।केन्द्रीय स्वास्थ्य एवं परिवारकल्याण राज्य मन्त्री प्रताप राव जाधव अवदत् यत् आयुष्मान भारत प्रधान मन्त्री जन आरोग्य योजना अन्तर्गतं राष्ट्रे सर्वत्र 36,229 इम्पैनल्ड चिकित्सालयाः सन्ति। एतेषां चिकित्सालयानां माध्यमेन
इंदु गोस्वामी।


नव दिल्ली, 28 मार्चमासः (हि.स.)।केन्द्रीय स्वास्थ्य एवं परिवारकल्याण राज्य मन्त्री प्रताप राव जाधव अवदत् यत् आयुष्मान भारत प्रधान मन्त्री जन आरोग्य योजना अन्तर्गतं राष्ट्रे सर्वत्र 36,229 इम्पैनल्ड चिकित्सालयाः सन्ति। एतेषां चिकित्सालयानां माध्यमेन कर्कट रोगः, हृदयरोगः, फुफ्फुसरोगः, स्तनरोगः इत्यादयः सहिताः 27 गम्भीररोगाणां उपचारः क्रियते।

तेन इंदु गोस्वामी राज्यसभा सदस्याय संसदे एषा सूचना प्रदत्ता। तेन उक्तं यत् अस्य योजनायाः अन्तर्गतं 6,746 निजी चिकित्सालयाः अपि इम्पैनल्ड कृताः सन्ति। अस्यां योजनायां सर्वे गम्भीररोगाः तथा महान्तः निदानपरिक्षणव्ययाः अपि समाविष्टाः सन्ति।

केन्द्रीय राज्य मन्त्री अवदत् यत् सितम्बर 2018 तः प्रारब्धस्य अस्य योजनायाः स्वास्थ्यलाभपैकेजः पञ्चवारं संशोधितः अस्ति। आदौ 1391 पैकेजाः आसन्, ये अद्य 1961 पर्यन्तं वर्धिताः सन्ति। अस्याः योजनायाः लाभं सर्वे पात्रलाभार्थिनः प्राप्नुयुः।

हिन्दुस्थान समाचार