निर्वाचनम् 26 : कांग्रेसदलस्य अथ राइजर दलस्य च चिटिकायां न प्राप्तायां लक्षेश्वर मोरानस्य विस्फोटकः आरोपः
तिनसुकिया (असमः), 28 मार्चमासः (हि.स.)। कांग्रेस तथा राइजर दल इत्येताभ्यां दलाभ्यां प्रत्याशिपदात् वञ्चितः लक्षेश्वर मोरान गम्भीरान् आरोपान् कृत्वा उक्तवान् यत् प्रत्याशिनिर्वाचनस्य नाम्ना धनस्य अपेक्षा कृता आसीत्। मोरानः आरोपं कृतवान् यत् तस्मै
Lakheswar Moran.


तिनसुकिया (असमः), 28 मार्चमासः (हि.स.)।

कांग्रेस तथा राइजर दल इत्येताभ्यां दलाभ्यां प्रत्याशिपदात् वञ्चितः लक्षेश्वर मोरान गम्भीरान् आरोपान् कृत्वा उक्तवान् यत् प्रत्याशिनिर्वाचनस्य नाम्ना धनस्य अपेक्षा कृता आसीत्।

मोरानः आरोपं कृतवान् यत् तस्मै उपदिष्टं यत् सः अन्यस्य प्रत्याशिपददावेदारस्य दुलाल मोरान कृते पञ्चाशत् लक्षरूप्यकाणां व्यवस्था करोतु, तदा एव तस्मै दलतः प्रत्याशिपदम् दातुं शक्यते इति। तेन अपि उक्तं यत् गौरव गोगोई तस्मै प्रत्याशिपदस्य आश्वासनं दत्तवान् आसीत्, किन्तु अनन्तरं सः उपेक्षितः अभवत्। तेन सह राइजर दल अध्यक्षः अखिल गोगोई अपि तं प्रत्याशिपदात् वञ्चितवान् इति आरोपः कृतः।

मोरानस्य कथनानुसारं सः कांग्रेस मध्ये प्रवेशार्थम् अपि पर्याप्तं धनं व्ययितवान्, किन्तु अन्ततः तस्मै प्रत्याशिपदं न प्राप्तम्। उभयदलाभ्यां निराशः सः अधुना डिगबोई विधानसभा क्षेत्र इत्यस्मात् क्षेत्रात् निर्दलीयप्रत्याशी रूपेण निर्वाचने भागों वहति ।

एतेभ्यः आरोपेभ्यः क्षेत्रस्य राजनीतौ स्पन्दनं जातम्, तथापि येषां विरुद्धं आरोपाः कृताः, तेषां पक्षात् अद्यापि काचित् आधिकारिकप्रतिक्रिया न प्रकाशिताऽस्ति।

हिन्दुस्थान समाचार