प्रधानमन्त्रिणा नोएडा-अन्ताराष्ट्रिय-विमानतलस्य प्रथम-चरणस्य उद्घाटनं कृतम्
नवदिल्ली, २८ मार्चमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र-मोदी उत्तरप्रदेशस्य गौतम-बुद्ध-नगर-जनपदे जेवर-स्थले स्थितस्य नोएडा-अन्ताराष्ट्रिय-विमानतलस्य प्रथम-चरणस्य (फेज-१) उद्घाटनं शनिवासरे कृतवान्। अस्मिन् अवसरे उत्तरप्रदेशस्य राज्यपालः आनन्दीबेन-पट
प्रधानमंत्री नरेंद्र मोदी एयरपोर्ट के उद्घाटन अवसर पर


नवदिल्ली, २८ मार्चमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र-मोदी उत्तरप्रदेशस्य गौतम-बुद्ध-नगर-जनपदे जेवर-स्थले स्थितस्य नोएडा-अन्ताराष्ट्रिय-विमानतलस्य प्रथम-चरणस्य (फेज-१) उद्घाटनं शनिवासरे कृतवान्।

अस्मिन् अवसरे उत्तरप्रदेशस्य राज्यपालः आनन्दीबेन-पटेलः, केन्द्रीय-नागर-विमानन-मन्त्री के. राममोहन-नायडू, मुख्यमन्त्री योगी-आदित्यनाथः, उपमुख्यमन्त्री बृजेश-पाठकः तथा केशव-प्रसाद-मौर्यः इत्येतै: सह बहवः गणमान्य-व्यक्तयः उपस्थिताः आसन्। कार्यक्रमे केन्द्रीय-नागर-विमानन-मन्त्री के.राममोहन-नायडू अवदत् यत् ‘उड़ान’-योजनायाः माध्यमेन प्रधानमन्त्री-मोदिनः नेतृत्वे देशस्य विमानन-क्षेत्रे उल्लेखनीया वृद्धिः अभवत्। राजग-शासनकाले वायु-सेवानां विस्तारः शीघ्रतया अभवत्, यस्य लाभः सामान्य-नागरिकान् प्रति अपि प्राप्तः।

तेन उक्तं यत् प्रधानमन्त्री-मोदी ‘उड़ान’-योजनां अधिकं सशक्तीकृत्य प्राथमिकतां दत्तवान्, येन देशस्य दूरस्थ-प्रदेशाः अपि वायु-संयोजनेन सम्बद्धाः भवन्ति। तस्य नेतृत्वे देशे विमानतलानां वायु-सेवानां च तीव्र-विकासः जातः, विशेषतः उत्तरप्रदेशे अस्य व्यापकः प्रभावः दृष्टः।

स्वीय-संबोधने तेन प्रधानमन्त्रीणः कार्यशैलीं प्रशंसन् उक्तं यत् सः निरन्तरं देश-सेवायै समर्पितः अस्ति तथा ‘आत्मनिर्भर-भारत’, ‘डिजिटल-भारत’ तथा ‘विकसित-भारत’ इत्यादीनि लक्ष्याणि साधयितुं सततम् प्रयतते।

प्रायः ११,२०० कोटि-रूप्यक-व्ययेन विकसितं एतत् विमानतलं देशस्य महत्तमेषु ग्रीनफील्ड-विमानतल-परियोजनासु अन्यतमः अस्ति। अयं सार्वजनिक-निजी-सहभागिता (पीपीपी) आदर्शेन निर्मितः अस्ति। प्रथम-चरणे अस्य वार्षिक-यात्री-क्षमता १२ मिलियन (एमपीपीए) भविष्यति, या भविष्ये ७० मिलियन-पर्यन्तं वर्धयितुं शक्यते।

एतत् विमानतलं ३,९०० मीटर-दीर्घेण रन-वे-इत्यनेन सह अस्ति, यः महत्-विमानानां संचालनाय सक्षमः भविष्यति। अत्र आधुनिक-नेविगेशन-प्रणाली तथा अत्याधुनिक-एयरफील्ड-दीप-व्यवस्था अपि अस्ति, येन सर्वेषु मौसमेषु २४x७ संचालनं सम्भविष्यति।

नोएडा-अन्ताराष्ट्रिय-विमानतलं बहु-माध्यम-परिवहन-केंद्ररूपेण विकसितम् अस्ति, यत्र मार्ग:, रेलयानं, मेट्रो तथा क्षेत्रीय-परिवहन-प्रणालीनां सुसम्बद्धः समन्वयः भविष्यति। अयं दिल्ली-एनसीआर-प्रदेशस्य द्वितीयम् अन्ताराष्ट्रिय-विमानतलं भविष्यति तथा इन्दिरा-गान्धी-अन्ताराष्ट्रिय-विमानतले भार-न्यूनतां करिष्यति।

अस्मिन् विमानतले अत्याधुनिकः कार्गो-केंद्रम् अपि निर्मितम् अस्ति, यः प्रारम्भे वार्षिकं २.५ लक्ष-मीट्रिक-टन-परिमाणं वहनं कर्तुं समर्थः भविष्यति तथा भविष्ये १८ लक्ष-मीट्रिक-टन-पर्यन्तं वर्धयितुं शक्यते। अतिरिक्ततया ४० एकर-क्षेत्रे मेंटेनेंस-रिपेयर-ओवरहॉल (एमआरओ) सुविधा अपि निर्मिता अस्ति।

पर्यावरण-दृष्ट्या अपि अयं परियोजना विशेषा अस्ति, या ‘नेट-जीरो-उत्सर्जन’-युक्त-विमानतल-रूपेण विकसितुं लक्ष्यीकृता अस्ति। अस्य रूपरेखा भारतीय-सांस्कृतिक-धरोहरात् प्रेरिता अस्ति, यत्र घाट-प्रासादानां दृश्यं दृश्यते।

यमुना-एक्सप्रेस-वे-मार्गस्य समीपे स्थितम् एतत् विमानतलं क्षेत्रीय-अन्ताराष्ट्रिय-संयोजनाय नवां गतिं दास्यति तथा भारतं वैश्विक-विमानन-केंद्ररूपेण स्थापयितुं महत्त्वपूर्णं पादं मन्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता