Enter your Email Address to subscribe to our newsletters

काठमाण्डूनगरम्, २८ मार्चमासः (हि.स.)। नेपालदेशे बालेन्द्र-सरकारः शपथग्रहणानन्तरं प्रथमदिने एव सक्रियतां दर्शितवान्। शपथग्रहणात् २४ होरा' अपि न व्यतीताः यत् ‘जेन-जी’-आन्दोलनकाले निःशस्त्र-छात्राणां हत्यायाः आरोपेण पूर्व-प्रधानमन्त्री के.पी.-शर्मा-ओली तथा तदानीन्तन-गृहमन्त्री रमेश-लेखकः गृहीतौ।
बालेन्द्रस्य अध्यक्षतायां सम्पन्नायां प्रथम-कैबिनेट्-सभायां ‘जेन-जी’-आन्दोलनस्य अन्वेषणार्थं गठित-आयोगस्य वार्तानां कार्यान्वयनस्य निर्णयः कृतः। अद्य प्रातः सूर्योदयात् पूर्वमेव प्रथमं रमेश-लेखकः, अनन्तरं पूर्व-प्रधानमन्त्री ओली अपि गृहीतः।
अन्वेषण-आयोगेन स्व-प्रतिवेदने ओली-लेखकाभ्यां सह आरक्षका:, सशस्त्र-आरक्षक-बलस्य सेनाया: अधिकारिणः अपि दोषिणः घोषिताः, किन्तु सुरक्षा-बलानां विरुद्धं अद्यापि काचित् प्रत्यक्ष-कार्यवाही न कृता। तेषां भूमिकायाः परीक्षार्थं पृथक् समितेः गठनस्य निर्णयः अपि सर्वकारेण कृतः।
हिन्दुस्थान समाचार / अंशु गुप्ता