नेपालः ओलेः निग्रहणं प्रतिशोधस्य कार्यवाही न, न्यायस्य शुभारंभः- गृहमंत्री सुदनः
काठमांडूः, 28 मार्चमासः (हि.स.)। नेपाल-देशस्य गृहमन्त्री सुदन गुरुङ उक्तवान् यत् पूर्व-प्रधानमन्त्रिणः केपी शर्मा ओली तथा पूर्व-गृहमन्त्रिणः रमेश लेखक इत्येतयोः गिरफ्तारी प्रतिशोधात्मक-कार्यवाही नास्ति। सुदन-गुरुङ् सामाजिक-माध्यमे आमुखपटले प्रका
सुदन गुरूंग की प्रतिक्रिया


काठमांडूः, 28 मार्चमासः (हि.स.)।

नेपाल-देशस्य गृहमन्त्री सुदन गुरुङ उक्तवान् यत् पूर्व-प्रधानमन्त्रिणः केपी शर्मा ओली तथा पूर्व-गृहमन्त्रिणः रमेश लेखक इत्येतयोः गिरफ्तारी प्रतिशोधात्मक-कार्यवाही नास्ति।

सुदन-गुरुङ् सामाजिक-माध्यमे आमुखपटले प्रकाशिते सन्देशे उक्तवान् यत् एषः निर्णयः न्यायस्य आरम्भस्य संकेतः अस्ति। सः लिखितवान्— “न कश्चित् अपि विधेः उपरि अस्ति। वयं पूर्व-प्रधानमन्त्री केपी शर्मा ओली तथा पूर्व-गृहमन्त्री रमेश लेखक इत्येतौ निग्रहे कृतवन्तः। एतत् कस्यापि विरुद्धं प्रतिशोधभावेन न, अपि तु न्यायस्य आरम्भः अस्ति।”

उल्लेखनीयम् यत् अद्य प्रातःकाले पुलिसदलेन तौ गृहीतौ। तयोः विरुद्धं ‘जेन-जी’ प्रदर्शन-समये निःशस्त्र-प्रदर्शनकर्तृ-छात्रेषु गोली-प्रयोगस्य आदेशं दत्तवन्तौ इति आरोपः अस्ति।

---------------

हिन्दुस्थान समाचार