नोएडा-विमानपत्तनम् केवलम् आधुनिकं न, भारतीय-संस्कृतेः च प्रतीकम् — नायडू
नोएडानगरम्, २८ मार्चमासः (हि.स.)। नोएडा-अन्ताराष्ट्रिय-विमानपत्तनम् केवलम् आधुनिक-विमानपत्तन-केंद्रम् न, अपि तु भारतीय-संस्कृतेः च जीवंत-प्रतिनिधित्वम् भविष्यति। अस्य स्थापत्य-कला तथा अन्तःविन्यासे उत्तर-प्रदेशस्य सांस्कृतिक-परम्परा विशेषतया समाविष
आधुनिकता के साथ संस्कृति का संगम नोएडा इंटरनेशनल एयरपोर्ट : नायडू


नोएडानगरम्, २८ मार्चमासः (हि.स.)। नोएडा-अन्ताराष्ट्रिय-विमानपत्तनम् केवलम् आधुनिक-विमानपत्तन-केंद्रम् न, अपि तु भारतीय-संस्कृतेः च जीवंत-प्रतिनिधित्वम् भविष्यति। अस्य स्थापत्य-कला तथा अन्तःविन्यासे उत्तर-प्रदेशस्य सांस्कृतिक-परम्परा विशेषतया समाविष्टा अस्ति, येन यात्रिणः अद्वितीय-सांस्कृतिक-अनुभवम् अनुभविष्यन्ति। केन्द्रीय-नागरिक-उड्डयन-मन्त्री किंजरापु-राममोहन-नायडू शनिवासरे प्रथम-चरणस्य (फेज्-१) उद्घाटनकाले अवदत् यत् विमानपत्तनस्य निर्माण-स्थले उत्तर-प्रदेशीय-पारंपरिक-प्रासादानां दृश्यं स्पष्टतया दृश्यते। मेहराब-आंगन-पारंपरिक-रचनाः च स्थापत्ये योजिताः यात्रिणः प्रदेशस्य समृद्ध-सांस्कृतिक-धरोहर-संयोजनेन संलग्नं करिष्यन्ति। पत्तनं गङ्गाघाट-विषयाधारेण बहु-स्तरीय-रचनायाम् विकसितम्, येन यात्रिभ्य: वाराणसी-हरिद्वार-घट्टानाम् अनुभवः लप्स्यते। सोपानवत् निर्माणम्, मुक्त-स्थलानि, प्रकाश-व्यवस्था च आध्यात्मिकं शान्तवातावरणं प्रदास्यन्ति।

अस्य विमानपत्तनस्य सौंदर्यीकरणे भारतस्य विविध-राज्यानां पारंपरिक-हस्तशिल्पस्य अपि उपयोग: कृत:। एष: प्रयत्न: केवलं भारतीय-कलापरम्परायाः प्रदर्शनं न करिष्यति, अपि तु स्थानियेभ्य: राष्ट्रीयेभ्य: च कारीगरेभ्यः वैश्विक-मञ्चं अपि प्रदास्यति। नोएडा-अन्ताराष्ट्रिय-विमानपत्तनस्य निर्माणस्य उदाहरणं दत्वा यथा आधुनिक-बुनियादी-नमूनायाम् सांस्कृतिक-परिचयं सम्यक् समायोजितं स्यात्। उच्च-तकनीक-सुविधाभिः सह पारंपरिक-विषय: च अन्य-विमानपत्तनेभ्यः पृथक् विशेषं करोति।

हिन्दुस्थान समाचार