भाषण प्रतियोगितायां मिताली गर्गः प्रथमः
प्रयागराजः, 28 मार्चमासः (हि.स)। ईश्वरशरण डिग्री महाविद्यालयस्य जैवरसायनविज्ञानविभागेन शनिवासरे वक्तृत्वप्रतियोगितायाः आयोजनं कृतम्। अस्मिन् स्पर्धायां मिताली गर्ग प्रथमस्थानं प्राप्तवती। तथा च सन्ध्या दीपिका च संयुक्तरूपेण द्वितीयस्थानं प्राप्तव
प्राचार्य प्रो आनन्द शंकर सिंह


प्रयागराजः, 28 मार्चमासः (हि.स)।

ईश्वरशरण डिग्री महाविद्यालयस्य जैवरसायनविज्ञानविभागेन शनिवासरे वक्तृत्वप्रतियोगितायाः आयोजनं कृतम्। अस्मिन् स्पर्धायां मिताली गर्ग प्रथमस्थानं प्राप्तवती। तथा च सन्ध्या दीपिका च संयुक्तरूपेण द्वितीयस्थानं प्राप्तवत्यौ, दिया सिंह तृतीयस्थानं प्राप्तवती।

महाविद्यालयस्य प्राचार्यः प्रो आनन्दशंकरसिंहः प्रतियोगितायाः उद्घाटनं कृत्वा छात्राणां जीवनशैलीम् आहारव्यवहारं च विषयीकृत्य प्रकाशं कृतवान्। विभागस्य संयोजकः डॉ अनुरागमिश्रः समाजे विद्यमानानां दोषाणां कुरीतीनां च उन्मूलनविषये विशेषव्याख्यानं दत्तवान्।

अस्यां प्रतियोगितायां विभागस्य छात्रछात्राभिः महिलासशक्तीकरणम्, बेरोजगारी, स्वास्थ्यं, शिक्षा, सुरक्षा, प्रौद्योगिकी, जलवायुपरिवर्तनम् तथा पर्यावरणम् इत्यादिषु महत्त्वपूर्णेषु विषयेषु स्वविचाराः प्रस्तुताः।

महाविद्यालयस्य पीआरओ डॉ मनोजकुमारदूबे उक्तवान् यत् विभागस्य शिक्षकः डॉ मनीषकुमारः छात्राणां चतुर्मुखविकासस्य महत्त्वं निरूपितवान्। अस्मिन् अवसरि अन्ये अपि शिक्षकाः बहवः छात्रच्छात्राश्च उपस्थिताः आसन्।

हिन्दुस्थान समाचार