पंचक्रोशी यात्रायाः सज्जानाम् अधिकारिभिः संज्ञानं गृहीत्वा मार्गाः निरीक्षिताः
उज्जैनम्, 28 मार्चमासः (हि.स.)। धार्मिकनगरे उज्जयिन्यां प्रतिवर्षं आयोजितायाः पञ्चक्रोशीयात्रायाः सम्बन्धे प्रशासनस्य सज्जताः तीव्राः कृताः। अस्मिन् क्रमणे शनिवासरे वरिष्ठप्रशासनिकाधिकारिणः यात्रामार्गस्य निरीक्षणं कृत्वा व्यवस्थाः अवलोकितवन्तः।
Officials visited to prepare for the Panchakroshi Yatra.


उज्जैनम्, 28 मार्चमासः (हि.स.)।

धार्मिकनगरे उज्जयिन्यां प्रतिवर्षं आयोजितायाः पञ्चक्रोशीयात्रायाः सम्बन्धे प्रशासनस्य सज्जताः तीव्राः कृताः। अस्मिन् क्रमणे शनिवासरे वरिष्ठप्रशासनिकाधिकारिणः यात्रामार्गस्य निरीक्षणं कृत्वा व्यवस्थाः अवलोकितवन्तः।

निरीक्षणस्य आरम्भः पटनीबाजारस्थिते नागचन्द्रेश्वरमहादेवमन्दिरे कृतः, यत्र अधिकारिणः विधिवत् पूजनार्चनं कृतवन्तः। ततः मन्दिरपरिसरे पेयजलव्यवस्था, जलटङ्कस्य शुद्धीकरणं, सीसीटीवी कैमरा व्यवस्था, प्रकाशव्यवस्था तथा एलईडीपट्टिकानां सम्यक् संचालनं सुनिश्चितं कर्तुं सम्बन्धिताधिकारीभ्यः निर्देशाः दत्ताः।

अस्मिन् अवसरे संभागायुक्त आशीषसिंहः, डीआईजी नवनीतभसीनः, कलेक्टर रौशनकुमारसिंहः, पुलिसअधीक्षक प्रदीपशर्मा, नगरनिगमायुक्त अभिलाषमिश्रः, जिलापञ्चायतसीईओ श्रेयांसकूमटः, वनमण्डलाधिकारी अनुरागतिवारी तथा एडीएम अतेंद्रसिंहगुर्जरः सहिताः अन्ये विभागीयाधिकारीणः उपस्थिताः आसन्।

अधिकारिणां निर्देशाः आसन् यत् पञ्चक्रोशी यात्राकाले श्रद्धालूनां काचनापि असुविधा न भवेत्, तस्मात् सर्वाः आवश्यकव्यवस्थाः समये एव सुनिश्चिताः करणीयाः।

हिन्दुस्थान समाचार