Enter your Email Address to subscribe to our newsletters

-एकाकिनि अहमदाबादे एव4640 कोटिरुप्यकाणां 32 परियोजनानां भविष्यति लोकार्पणं शिलान्यासं च
गांधीनगरम्, 28 मार्चमासः(हि.स.)।
मार्च-मासस्य एकत्रिंशत्तमे दिने प्रधानमन्त्रिणा नरेन्द्रमोदिना स्वस्य गुजरात-राज्यस्य यात्रायां राज्ये समग्रतः ५२९५.५४ कोटि-रूप्यकाणां मूल्यस्य ४४ विकास-कार्याणां शिलान्यासः लोकार्पणं च क्रियते। तेषु ३४२७.१४ कोटि-रूप्यकाणां २६ कार्याणां शिलान्यासः तथा १८६८.४० कोटि-रूप्यकाणां १८ कार्याणां लोकार्पणं समाविष्टम् अस्ति।
एतेषु प्रमुखतया अहमदाबाद-महानगरपालिकायाः ४६४०.१२ कोटि-रूप्यकाणां ३२ परियोजनाः, गांधीनगर-महानगरपालिकायाः ३०४.८२ कोटि-रूप्यकाणां ७ परियोजनाः, गांधीनगर-शहरी-विकास-प्राधिकरणस्य २७२.८६ कोटि-रूप्यकाणां ३ परियोजनाः तथा गुजरात-अर्बन-डेवलपमेंट-अथॉरिटीस्य ७७.७४ कोटि-रूप्यकाणां २ परियोजनाः सन्ति, येषां शिलान्यासः लोकार्पणं च क्रियते।
प्रधानमन्त्री ऐतिहासिक-नगर्या वडनगरस्य विरासत्-सम्पदः संरक्षणार्थं पर्यटनस्य च संवर्धनाय ३४.४५ कोटि-रूप्यकव्ययेन “हेरिटेज-टाउन-शहरी-विकास-सड़क-सौन्दर्यीकरण” इति परियोजनायाः लोकार्पणं करिष्यति। अस्याः परियोजनायाः अन्तर्गतं हाटकेश्वर-मन्दिरं संगीत-संग्रहालयं च प्रमुख-स्थलरूपेण गृहीत्वा आधुनिक-मार्ग-संरचना, भूमिगत-दीपव्यवस्था, शिलासूचना-पट्टिकाः तथा कलात्मक-निर्माणैः सौन्दर्यवर्धनं कृतम् अस्ति।
तथैव प्रधानमन्त्री पाटण-नगरे रेल-उपरिसेतोः (रेलवे-ओवरब्रिज) लोकार्पणं करिष्यति। पाटण-निवासिनां सुविधार्थं ४३.२९ कोटि-रूप्यकव्ययेन फाटक-संख्या ४१-ए स्थले ८९८ मीटर-दीर्घः त्रिशाखीयः उपरिसेतुः निर्मितः अस्ति, यः यातायात-समस्यां निवारयित्वा प्रायः द्विलक्ष-जनानां सुरक्षितं शीघ्रं च गमनं सुनिश्चितं करिष्यति।
अस्य दौरे प्रधानमन्त्रिणा निर्धन-मध्यमवर्गीय-परिवाराणां कृते “प्रधानमन्त्री-आवास-योजना” अन्तर्गत-गृहाणां लोकार्पणं क्रियते, येन सहस्रशः परिवाराः स्वगृह-स्वप्नं साकारयिष्यन्ति। अहमदाबाद-नगरस्य नूतन-प्रदेशेषु अपि जल-निष्कासन-व्यवस्था तथा अन्याधारभूत-सुविधाः विकास-परियोजनाः भविष्ये नगरस्य रूपान्तरणं करिष्यन्ति।
अहमदाबाद-महानगरपालिकायाः विविध-विकास-कार्येषु खारीकट-नहर-विकासः, विविध-आवास-परियोजनाः, क्रीडा-संकेन्द्रस्य निर्माणम्, जल-वितरण-केन्द्राणि, जल-शोधन-सुविधाः, सेतुनिर्माणं, मार्ग-विकासः, नाल-प्रणाल्याः विस्तारः, खाद्य-परीक्षण-प्रयोगशाला, उद्यान-विकासः इत्यादयः बहवः प्रकल्पाः समाविष्टाः सन्ति।
तथैव गांधीनगर-महानगरपालिका तथा गांधीनगर-शहरी-विकास-प्राधिकरणस्य योजनासु आवास-निर्माणम्, जल-निष्कासन-प्रणाली, कार्यरत-स्त्रीणां छात्रावासः, व्यापार-मार्ग-विकासः, वर्षाजल-व्यवस्था, ग्राम-मार्ग-विकासः तथा जल-शोधन-केन्द्राणि इत्यादयः परियोजनाः सन्ति।
एते सर्वे प्रकल्पाः राज्यस्य आधारभूत-संरचनायाः सुदृढीकरणं, जनसुविधा-वृद्धिं तथा आर्थिक-विकासं प्रोत्साहयितुं महत्त्वपूर्णं योगदानं दास्यन्ति।
---------------
हिन्दुस्थान समाचार