Enter your Email Address to subscribe to our newsletters


-खेडब्रह्मातः हिंमतनगरं भूत्वा अहमदाबादं (असारवां)यावन्नूतनयानेभ्यः दर्शयिष्यते हरितध्वजः
गांधीनगरम्, 28 मार्चमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्र मोदी मार्च-मासस्य ३१ दिनाङ्के मङ्गलवासरे गुजरातराज्यस्य एकदिवसीययात्रां करिष्यति। अस्य यात्रायाः अवसरे सः भारत-सरकारस्य रेलमन्त्रालयस्य ८९१ कोटिरूप्यकाणां विभिन्नपरियोजनानां राज्यस्य नागरिकेभ्यः समर्पणं करिष्यति।
प्रधानमन्त्री संयोजनसुविधां सुदृढीकरणाय आर्थिकक्रियाकलापानां वेगवर्धनाय तथा यात्रिकाणां परिवहनसुविधावृद्धये नवीनां रेलयानसेवां अपि हरितध्वजेन उद्घाटयिष्यति। सः गुरुरातराज्ये वाव-थराद-स्थानात् एतासां परियोजनानां आभासी-उद्घाटनं करिष्यति। अस्मिन् कार्यक्रमे राज्यस्य मुख्यमन्त्री भूपेंद्रपटेलोऽपि उपस्थितः भविष्यति। एतत् विवरणं राज्यस्य सूचना-विभागेन प्रदत्तम्।
प्रधानमन्त्री नरेन्द्र मोदी हिंमतनगर-नगरात् खेडब्रह्मा-नगरपर्यन्तं ५५ किलोमीटर-दीर्घां नवीनां रेलमार्गरेखां उद्घाटयिष्यति, यस्य निर्माणं ४८२ कोटिरूप्यकैः कृतम्। अस्य माध्यमेन साबरकाँठा-जिलायां संयोजने उल्लेखनीयः सुधारः भविष्यति, यः शीघ्रं सुलभं च यात्रानुभवं सुनिश्चितं करिष्यति। एतेन परियोजनया अहमदाबाद-नगरं उदयपुर-नगरसह प्रत्यक्षसंयोजनं प्राप्स्यति। अनेन स्वास्थ्य-सेवा तथा शिक्षायाः यथोचितोपलब्धिः वर्धिष्यते, तथा च स्थानीय-समुदायानां कृते आजीविकायाः नूतनाः अवसराः सृज्यन्ते।
अतिरिक्ततया २५७ कोटिरूप्यकव्यये निर्मितः कानालुस-जामनगर-द्वितलीकरण-परियोजना (२७ किलोमीटर) अन्तर्गतः अतिरिक्त-रेलमार्गः तथा गांधीधाम-आदिपुर-बहुमार्ग-परियोजना (११ किलोमीटर) अपि प्रधानमन्त्रिणा लोकार्पितौ भविष्यतः। एताभ्यां परियोजनाभ्यां रेलयानानां गमनागमनं शीघ्रतरं सुगमतमं च भविष्यति। तथैव मालवाहनस्य परिवहनं अधिकं कार्यक्षमं भविष्यति, दीनदयाल-बन्दरम् सहित महत्त्वपूर्ण-औद्योगिककेन्द्रेषु संयोजने अपि सुधारः भविष्यति। एताः परियोजनाः स्थानीय-पर्यटनविकासे अपि योगदानं दास्यन्ति।
अस्मिन् कार्यक्रमे प्रधानमन्त्री खेडब्रह्मातः अहमदाबादपर्यन्तं यानस्य हरितध्वजप्रदर्शनं करिष्यति, यत् हिंमतनगरमार्गेण गमिष्यति। अस्य रेलयानस्य आरम्भेन अस्मिन् क्षेत्रे नागरिकानां यात्रासुविधा शीघ्रतरा सुगमा च भविष्यति तथा स्थानीय-आर्थिकविकासः अपि वेगं प्राप्स्यति।
प्रधानमन्त्रिणः दृष्टिकोणानुसारं भारतीय-रेलव्यवस्थां आधुनिकां अधिककार्यकुशलां च कर्तुं विविधाः प्रथमतया क्रियमाणाः सन्ति। सुदूरवर्तीक्षेत्रेषु अपि संयोजनं सुनिश्चित्य नागरिकानां यात्रानुभवं समृद्धं कर्तुं सततप्रयत्नाः क्रियन्ते। एताभिः पहलाभिः समावेशी-विकासः प्रोत्साहितः भविष्यति तथा भारतीय-अर्थव्यवस्था अधिका सुदृढा भविष्यति।
---------------
हिन्दुस्थान समाचार