Enter your Email Address to subscribe to our newsletters

ढाका, 28 मार्चमासः (हि.स.)।
बाङ्ग्लादेशस्य सर्वकारेण इण्डियन प्रीमियर लीग २०२६ प्रसारणविषये महत्त्वपूर्णः निर्णयः कृतः। सूचना प्रसारण मन्त्री जहीर उद्दीन स्वपन उक्तवान् यत् यदि कश्चन सञ्चारमाध्यमः आईपीएल प्रसारणं कर्तुम् इच्छति तर्हि सरकारः तस्य विषये अनुकूलतया विचारं करिष्यति।
जनवरी मासे बाङ्ग्लादेशस्य सूचना प्रसारण मन्त्रालयेन इण्डियन प्रीमियर लीग प्रसारणे प्रतिबन्धः आरोपितः आसीत्। एषः निर्णयः बाङ्ग्लादेशीय खिलाड़ी मुस्तफिजुर रहमान लीगात् बहिष्कृतः इति कारणेन कृतः आसीत्।
अधुना नूतन परिस्थितौ मन्त्री स्वपन उक्तवान् यत् पूर्वसरकारस्य आदेशः प्रत्याहृतः अस्ति। सः अवदत् यद्वयं क्रीडां राजनीतिना सह न संयोजयितुम् इच्छामः। यदि कश्चन सञ्चारमाध्यमः आईपीएल प्रसारणं कर्तुम् इच्छति तर्हि वयं तं विषयं व्यावसायिक दृष्ट्या सकारात्मकतया पश्यामः।
मन्त्री इदं अपि स्पष्टवान् यत् आईपीएलस्य आधिकारिक प्रसारकः स्टार स्पोर्ट्स अपि प्रसारणस्य अनुमतिं प्राप्स्यति तथा च केबल परिचालकानाम् उपरि अपि काचित् निषेधा न भविष्यति। सः उक्तवान् यद्वयं कञ्चन अपि प्रसारणात् न निरोधयामः। यदि स्टार स्पोर्ट्स अथवा कश्चन स्थानीय चैनलः आईपीएल दर्शयितुम् इच्छति तर्हि वयं तं सकारात्मकतया स्वीकरिष्यामः किन्तु कस्यापि उपरि कश्चित् प्रणोदो न भविष्यति।
अनेन निर्णयेन बाङ्ग्लादेशे आईपीएल २०२६ प्रसारणस्य मार्गः पुनः प्रशस्तः जातः।
--------------
हिन्दुस्थान समाचार