Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, २८ मार्चमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अद्य नोएडा-अन्ताराष्ट्रिय-विमानपत्तनस्य प्रथम-चरणस्य लोकार्पणं करिष्यति। सः कार्गो-टर्मिनलस्य उद्घाटनं तथा एमआरओ-सुविधायाः शिलान्यासं अपि करिष्यति। एतत् विमानपत्तनं देशस्य प्रमुख-ग्रीनफील्ड-परियोजनासु अन्यतमम् अस्ति, यत् बहु-आयामी-परिवहन-केंद्ररूपेण विकसितम् अस्ति।
अस्य प्रारम्भिक-क्षमता प्रतिवर्षं १२ मिलियन यात्रिणः अस्ति, या भविष्ये ७० मिलियन-पर्यन्तं वर्धयितुं शक्यते।
उद्घाटन-कार्यक्रमः
कठोर-सुरक्षा-व्यवस्थायां मध्ये आयोजितः, यत्र सहस्राधिकाः सुरक्षा-कर्मिणः नियुक्ताः सन्ति। कार्यक्रममा राज्यपाल आनन्दीबेनपटेल: तथा मुख्यमन्त्री योगी-आदित्यनाथ: अपि उपस्थितौ भविष्यतः।
अधिकृतैः सूचितं यत् संवेदनशीलतां दृष्ट्वा क्षेत्रे बहु-स्तरीय-सुरक्षा-व्यवस्था स्थापिताऽस्ति। सर्वेषु प्रवेश-बिन्दुषु कठोर-निरीक्षणं, सामान-परिशोधनं, परिचय-परीक्षणं च क्रियते। शताधिकेषु प्रवेश-द्वारेषु द्विशताधिक-धातु-निर्धारक-यन्त्राणि स्थापितानि, तथा स्त्रीणां कृते पृथक् परीक्षण-व्यवस्था अपि कृताऽस्ति।
प्रायः ५००० सुरक्षा-कर्मिणः नियुक्ताः, तेषु उत्तरप्रदेश-आरक्षकविभागस्य अधिकारिणः, पीएसी, आरएएफ, एटीएस, सीआईएसएफ इत्यादीनां संयुक्त-बलं समाविष्टम् अस्ति। अतिरिक्ततया एण्टि-ड्रोन-समूहाः, बम-निष्कासन-दलाः (बीडीडीएस), सूँघक-श्वानाः च नियुक्ताः सन्ति। सर्वत्र सीसीटीवी-निरीक्षणम् अपि व्यवह्रियते।
हिन्दुस्थान समाचार / अंशु गुप्ता