Enter your Email Address to subscribe to our newsletters

वाराणसी,28 मार्चमासः (हि.स.)। केन्द्र-राज्य-सर्वकारयोः वाराणसी-नगरस्य आधारभूत-संरचनां सुदृढां कर्तुं नगर-निगमेन सह समग्र-प्रयत्नः कृतः अस्ति। अस्य अन्तर्गतं नगर-निगमस्य १८ अति-प्रभावित-वार्डेषु तथा विस्तारित-क्षेत्रेषु अमृत-2.0 योजना अन्तर्गतं २५९-कोटि-रूप्यकाधिक-व्ययेन सीवर-पेयजल-सम्बद्धाः त्रयः महान्तः परियोजनाः अनुमोदिताः सन्ति।
अस्य महत्त्वाकांक्षिणः परियोजनायाः आधारशिला स्वयम् नरेंद्र मोदी द्वारा स्थाप्यते इति सम्भाव्यते। अस्यार्थं उत्तर-प्रदेश-शासनं प्रथम-किश्तां अपि विमोचितवती, नगर-निगमेन च निविदा-प्रक्रियाः सम्पन्नाः। अतः शीघ्रमेव सीवर-पेयजल-नलिकानां स्थापना-कार्यं प्रारभ्यते इति अपेक्षा।
प्रधानमन्त्रिणः नरेन्द्र-मोदिनः दृष्ट्या तथा योगिनःआदित्यनाथस्य संकल्पेन अधुना नगरस्य पेयजल-सीवर-व्यवस्थायां क्रान्तिकारी-परिवर्तनं भविष्यति। नव-विस्तारित-क्षेत्रयोः रामनगर तथा सूजाबाद इत्यत्र अपि सीवर-नलिकानां जालं स्थाप्यते।
रामनगर-क्षेत्रे सीवर-नेटवर्कस्य निर्माणाय तथा सर्वेषां गृहाणां सीवर-संयोजनाय शासनात् १९०-कोटि-रूप्यकाणां अनुमतिः दत्ता। तत्र ६९.९८ किमी दीर्घा शाखा-रेखा तथा ३.४ किमी मुख्य-रेखा स्थाप्यते। अपि च १० एमएलडी-क्षमतायाः एसटीपी तथा द्वौ सीवर-पम्प-केन्द्रौ निर्मीयेताम्।
तथैव सूजाबाद-क्षेत्रे शुद्ध-पेयजल-आपूर्तेः विस्ताराय प्रायः ३५-कोटि-रूप्यक-परियोजना अनुमोदिता। विशेषतया १३,६४५ गृहेषु निःशुल्कं सीवर-संयोजनं दास्यते। एषा सूचना नगर-निगमस्य जनसम्पर्क-विभागेन प्रदत्ता।
एतेषां कार्याणां मुख्य-उद्देश्यं प्राचीन-नगरस्य तेषु भागेषु नागरिक-सुविधाः उन्नीयन्तु यत्र पूर्वं समस्या आसीत्। शासनस्य संयुक्त-सचिवेन देवेश-मिश्रेण उक्तं यत् वाराणस्याः विकासाय संसाधनानां काचिदपि न्यूनता न भविष्यति।
अत्र नगरे प्रायः २००-वर्ष-पुरातनाः सीवर-पेयजल-नलिकाः सन्ति, येन सीवर-प्रवाहस्य अतिक्रमणं तथा जल-अपव्ययः (४८% लाइन-लॉस) गंभीर-समस्या अभवत्। १८ वार्डेषु नूतन-नलिकानां स्थापनेन जल-अपव्ययः न्यूनः भविष्यति, जल-दाबः च वर्धिष्यते।
व्यय-विवरणम्—रामनगर-सीवर-परियोजनायै १९०.०९-कोटि-रूप्यकाणां स्वीकृतिः, ३५.०९-कोटि विमोचनम्।सूजाबाद-पेयजल-परियोजनायै ३४.७७-कोटि-रूप्यकाणां स्वीकृतिः, ६.४२-कोटिमितं विमोचनम्।१८-प्रभावित-वार्डकेंद्रेषु ३३.४४-कोटि-रूप्यकाणां स्वीकृतिः, ६.१८-कोटि विमोचनम्।
----------------
हिन्दुस्थान समाचार