बंगाल-निर्वाचनम् २०२६ : अमित-शाहः अवदत् - ममता सहानुभूति-राजनीतिं करोति, पञ्चदश-वर्षीय-शासनस्य उपरि आरोप-पत्रं प्रस्तुतम्
कोलकातानगरम्, २८ मार्चमासः (हि.स.)। पश्चिम-बङ्गाल-विधानसभा-निर्वाचनात् पूर्वं केन्द्रीय-गृहमन्त्री अमित-शाहः कोलकाता-नगरे तृणमूल-कांग्रेस-सर्वकारं मुख्यमन्त्री-ममता-बनर्जीं च प्रति तीक्ष्णं प्रहारं कृतवान्। तेन आरोपितं यत् राज्ये पञ्चदश-वर्षेभ्यः भ
अमित शाह


कोलकातानगरम्, २८ मार्चमासः (हि.स.)। पश्चिम-बङ्गाल-विधानसभा-निर्वाचनात् पूर्वं केन्द्रीय-गृहमन्त्री अमित-शाहः कोलकाता-नगरे तृणमूल-कांग्रेस-सर्वकारं मुख्यमन्त्री-ममता-बनर्जीं च प्रति तीक्ष्णं प्रहारं कृतवान्। तेन आरोपितं यत् राज्ये पञ्चदश-वर्षेभ्यः भय-भ्रष्टाचार-तुष्टीकरण-राजनीतिः प्रवर्तते। तेन सर्वकारस्य विरुद्धं विस्तृतम् आरोप-पत्रम् अपि प्रकाशितं कृत्वा उक्तं यत् एतत् बङ्गाल-जनतायाः स्वरः अस्ति।

अमित-शाहः ममता-बनर्जी सहानुभूति-राजनीतिं करोतीति आरोपं कृतवान् तथा उक्तवान् यत् एतद् निर्वाचनं राज्यं भय-वातावरणात् मुक्तं कर्तुं निर्णायकं भविष्यति। तेन राज्ये असुरक्षा, भ्रष्टाचारः, अवैध-प्रवेशः, विकासाभावः गम्भीर-समस्याः च सन्ति इत्यपु आरोपितम्।

विधानसभा-निर्वाचनस्य उल्लेखं कृत्वा तेन उक्तं यत् २०१६ वर्षे भाजपापक्ष्य केवलं १० प्रतिशतं मतानि, ३ आसनानि च प्राप्तानि; किन्तु २०२१ वर्षे मत-प्रतिशतं ३८ प्रतिशतं जातं, दलं ७७ आसनानि विजित्य दृढां उपस्थितिं प्रदर्शितवान्।

अमित-शाहः उक्तवान् यत् एतेषां विवरणानाम् आधारात् स्पष्टं भवति यत् भाजपापक्षेण पश्चिम-बङ्गाले निरन्तरं जनाधारः सुदृढीकृतः, अधुना च प्रायः ४० प्रतिशत-मतैः सह दलं राज्ये दृढा राजनैतिक-शक्तिरूपेण स्थितम् अस्ति।

तेन उक्तं यत् भाजपायाः जनाधारः निरन्तरं वर्धते तथा यदि तस्य दलं सत्तां प्राप्नुयात् तर्हि अवैधप्रवेशकानां विरुद्धं कठोर-कार्यवाही क्रियते। अन्ते तेन उक्तं यत् जनता भय-भ्रष्टाचार-राजनीतिं शान्ति-विकास-मार्गं वा वृणुयात्, इति निर्णयः अस्मिन् निर्वाचने भविष्यति।

हिन्दुस्थान समाचार