Enter your Email Address to subscribe to our newsletters

सीहोरनगरम्, २८ मार्चमासः (हि.स.)। मध्यप्रदेशस्य सीहोर-नगरे जनपद-विधिक-सेवा-प्राधिकरणेन अद्य शनिवासरे राष्ट्रीय-मानसिक-स्वास्थ्य-पुनर्वास-संस्थाने प्रातः १०:३० वादनात् आरभ्य मेगा-लीगल-आउटरीच- तथा जागरूकता-शिविरस्य आयोजनं क्रियते।
जनसम्पर्क-अधिकारी देवेन्द्र-ओगारेण उक्तं यत् अस्य शिविरस्य मुख्य-विषयः मानसिक-स्वास्थ्यः तथा दिव्याङ्गजनाः भविष्यन्ति। अस्मिन् शिविरे राजस्व-विभागः, आरक्षक-विभागः, सामाजिक-न्याय-विभागः, जनपद-पञ्चायत:, स्वास्थ्य-विभागः, महिला-बाल-विकास-विभागः, श्रम-विभागः, जनजातीय-कार्य-विभागः, शिक्षा-विभागः इत्यादयः विभागाः स्व-स्व-प्रदर्शन-स्थानानि स्थापयिष्यन्ति।तत्र दिव्याङ्गजनाः तथा सामान्य-नागरिकाः शासन-योजनाभ्यः लाभं प्राप्स्यन्ति, तथा दिव्याङ्गजनानां कृते आवश्यक-सहायक-उपकरणानाम् अपि वितरणं भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता