Enter your Email Address to subscribe to our newsletters

शोणितपुरम् (असमः), 29 मार्चमासः (हि.स.)। असमप्रदेशस्य द्विदिवसीयभ्रमणे द्वितीये दिने रविवासरे केन्द्रीयगृहमन्त्री अमित शाहः शोणितपुरे आयोजितायां जनसभायां कांग्रेसपक्षं प्रति स्वआक्रमणं अधिकं तीव्रं कृतवान्। तेन आरोपितं यत् एतत् दलम् ऐतिहासिकदृष्ट्या स्वनीतिभिः राज्ये अवैधप्रवेशं प्रोत्साहितवती अस्ति, अधुना च केन्द्रसर्वकारेण क्रियमाणानां सुधारात्मकपदानां विरोधं करोति।
सभां सम्बोधयन् केन्द्रीयगृहमन्त्री उक्तवान् यत् कांग्रेससरकारेण ‘अवैधप्रवासी (ट्रिब्यूनलद्वारा निर्धारण) अधिनियम’ (आईएमडीटी) केवलं असमप्रदेशे घुसपैठिनां प्रोत्साहनार्थं निर्मितः आसीत्। सः पुनः उक्तवान् यत् अवैधप्रवासिनां परिचयः निष्कासनं च कर्तुं केन्द्रसरकारस्य दृढसंकल्पः अस्ति, एषः विषयः च सरकारस्य सदा प्राथमिकतासु स्थितः अस्ति।
सम्पूर्णदेशे प्रचलितस्य विशेषगहनपुनरीक्षण (एसआईआर) अभियानस्य उल्लेखं कृत्वा सः कांग्रेसस्य शीर्षनेतृत्वं प्रति अस्य प्रक्रियायाः विरोधस्य आरोपं कृतवान्। तेन उक्तं यत् एतादृशः विरोधः अवैधप्रवेशविषये कांग्रेसस्य स्थितिं विषये अनेकान् प्रश्नान् उत्पादयति।
असमकांग्रेसदलस्य नेता लोकसभासांसदः गौरव गोगोई अपि लक्ष्यीकृत्य अमित शाह तं चुनौतीं दत्तवान् यत् सः राज्यजनतायाः समक्षं स्वमतं स्पष्टतया प्रदर्शयतु। सः उक्तवान् यत् यदि गौरव गोगोई अत्र आगच्छेत्, तर्हि तस्मात् पृच्छन्तु यत् सः एसआईआर इत्यस्य विरोधं किमर्थं करोति। तेन एतत् स्पष्टं कर्तव्यं यत् सः अवैधप्रवेशिनां पक्षे अस्ति उत तेषां विरुद्धम्।
उल्लेखनीयम् अस्ति यत् केन्द्रीयगृहमन्त्री अमित शाह स्वस्य असमभ्रमणे प्रारम्भे शनिवासरे सायंकाले गुवाहाट्यां भव्यं रोडशो आयोजितवान्, यस्मिन् लक्षसंख्यकाः जनाः सहभागिनः अभवन्। अद्य अपि सः नलबाडीसमेतान्येषु निर्वाचनकार्यक्रमेषु भागं ग्रहणं करिष्यति।------------------
हिन्दुस्थान समाचार