मल्लिकार्जुनखड़गे-इत्यस्य असम-राज्य-भ्रमणं प्रति मुख्यमन्त्रिणा लक्ष्यं साधितम्
कार्बी-आङ्ग्लोङ्गः, २९ मार्चमासः (हि.स.)। असम-विधानसभा-निर्वाचनस्य प्रचारार्थं मल्लिकार्जुनखड़गे-इत्यस्य असम-भ्रमणं प्रति मुख्यमन्त्री हिमंतबिस्वासरमा रविवासरे कटाक्षं कृतवान्। तेन दलस्य नेतृत्व-निर्वाचनं तथा खड़गे-महाभागस्य पूर्ववृत्तं प्रति गम्भी
असमः कार्बी आंगलोंग जिले में रविवार को चुनाव प्रचार सभा के दौरान कार्बी बच्चियों के साथ आको एबार बीजेपी सरकार गाने की धुन पर थिरकते मुख्यमंत्री डॉ. हिमंत बिस्व सरमा


कार्बी-आङ्ग्लोङ्गः, २९ मार्चमासः (हि.स.)। असम-विधानसभा-निर्वाचनस्य प्रचारार्थं मल्लिकार्जुनखड़गे-इत्यस्य असम-भ्रमणं प्रति मुख्यमन्त्री हिमंतबिस्वासरमा रविवासरे कटाक्षं कृतवान्। तेन दलस्य नेतृत्व-निर्वाचनं तथा खड़गे-महाभागस्य पूर्ववृत्तं प्रति गम्भीराः प्रश्नाः अपि उत्थापिताः।

ज्ञातव्यम् यत् अद्य राज्यस्य पर्वतीय-जनपदे कार्बी-आङ्ग्लोङ्गे बोकाजन-विधानसभा, डिफू-विधानसभा, हावराघाट-विधानसभा तथा आमरी-विधानसभा-क्षेत्रेषु चतुर्षु निर्वाचन-विजय-संकल्प-सभासु मुख्यमन्त्री सहभागितां कृतवान्। सभासु उपस्थितानां जनानां बहुल-संख्यां दृष्ट्वा सः अत्यन्तम् उत्साहितः अभवत्। तेन उक्तं यत् भारतीयजनतापक्षस्य विजयः पूर्णतया सुनिश्चितः अस्ति।

अस्मिन् अवसरे माध्यमान् प्रति सम्बोधयन् डॉ.सर्मा उक्तवान् यत् भारतीयराष्ट्रीयकांग्रेस-दलेन असमे खड़गे-महाभागं प्रमुख-प्रचार-मुखरूपेण प्रस्तूय रणनीतिक-त्रुटिः कृता अस्ति। तेन व्यङ्ग्येन उक्तं यत् खड़गे-महाभागम् आनयित्वा कांग्रेस-दलेन स्वपादयोः एव कुठाराघातः कृतः।

तेन अग्रे आरोपितं यत् खड़गे-महाभागेन पूर्वम् असमस्य सांस्कृतिक-प्रतीकस्य भूपेन हजारिका-महाभागाय भारत-रत्न-पुरस्कार-प्रदानस्य विरोधः कृतः। डॉ.सर्मा इदमपि अवदत् यत् खड़गे-महाभागेन असमे प्रस्तावितस्य सेमिकण्डक्टर-परियोजनायाः स्थापनेऽपि विरोधः कृतः, यत् राज्यस्य औद्योगिक-प्राविधिक-उन्नतेः दिशि महत्त्वपूर्णं पदम् इति राज्य-सर्वकारेण निर्दिष्टम्।

कांग्रेस-दलस्य प्रचार-रणनीतिं प्रति चिन्तां व्यक्तयन् मुख्यमन्त्री पृष्टवान्— “किम् एतादृशः जनः यं यूयं असमे ‘स्टार-प्रचारक:’ इति स्थापयथ?” मल्लिकार्जुन: खड़गे रविवासरे लखीमपुर-नगरे ९ अप्रैल-मासे भवितव्यस्य असम-विधानसभा-निर्वाचनस्य कृते कांग्रेस-दलस्य घोषणापत्रं प्रकाशयिष्यति। तेन सह दलं राज्ये स्वस्य प्रचार-अभियानं तीव्रं कर्तुं प्रवृत्तम् अस्ति। एषा घोषणा जितेंद्रसिंहेन कृता, येन निर्वाचन-पूर्वं दलस्य सज्जता-रणनीतिः अपि ज्ञापिता।

हिन्दुस्थान समाचार / अंशु गुप्ता