भाजपादलस्य राष्ट्रियाध्यक्षस्य नितिन नवीनस्य असमभ्रमणमद्य
गुवाहाटी, 29 मार्चमासः(हि.स.)। भारतीयजनतापक्षस्य राष्ट्रियाध्यक्षः नितिन नवीन अद्य असमविधानसभानिर्वाचनस्य संदर्भे प्रचारकार्यक्रमे सहभागितां कर्तुं डिब्रूगढ़नगरं प्राप्तवान् अस्ति। सः डिब्रूगढ़स्य मोहनबारी-विमानस्थानके प्रधानमन्त्रिणः ‘मन की बात’ क
भाजपा के राष्ट्रीय अध्यक्ष नितिन नवीन। फाइल फोटो


गुवाहाटी, 29 मार्चमासः(हि.स.)। भारतीयजनतापक्षस्य राष्ट्रियाध्यक्षः नितिन नवीन अद्य असमविधानसभानिर्वाचनस्य संदर्भे प्रचारकार्यक्रमे सहभागितां कर्तुं डिब्रूगढ़नगरं प्राप्तवान् अस्ति। सः डिब्रूगढ़स्य मोहनबारी-विमानस्थानके प्रधानमन्त्रिणः ‘मन की बात’ कार्यक्रमे पक्षस्य नेतृभिः सह सहभागी भविष्यति।

अनन्तरं सः मार्गेरिटा-विधानसभाक्षेत्रे लीडो-बाजार-उच्चविद्यालयस्य क्रीडाङ्गणे वर्तमानविधायकस्य भास्करशर्मणः समर्थनार्थं आयोजितायां जनसभायां भागं गृह्णाति। अपरतः जोनाई-विधानसभाक्षेत्रे जोनाई-उच्चविद्यालयस्य क्रीडाङ्गणे वर्तमानविधायकस्य भुवेनपेगु-समर्थनार्थं आयोजितां जनसभां सम्बोधयिष्यति।

तस्य तृतीया जनसभा गोगामुखस्थिते स्किल्-केन्द्रे भविष्यति, यत्र सः धेमाजि-लखीमपुर-जिलयोः कार्यकर्तॄन् सम्बोधयिष्यति। सः रात्रौ गोगामुख-अतिथिगृहे विश्रामं करिष्यति।

उल्लेखनीयम् यत्, विधानसभानिर्वाचनस्य निमित्तं सम्पूर्णे राज्ये पक्षस्य वरिष्ठनेतॄणां प्रचारकार्यक्रमः अत्यन्तं वेगेन प्रवर्तते। राज्ये केन्द्रीयगृहमन्त्री अमित शाह गतशनिवासरे द्विदिवसीयकार्यक्रमाय आगतः। तथा च केन्द्रीयमन्त्री शिवराज सिंह चौहान अपि गतशुक्रवासरे रात्रौ गुवाहाटीं प्राप्तवान् आसीत्, येन सः अपि अनेकासु जनसभासु भाषणं कृतवान्।

आगामिषु दिनेषु प्रधानमन्त्री नरेन्द्र मोदी, केन्द्रीयरक्षामन्त्री राजनाथ सिंह, महाराष्ट्रस्य तथा त्रिपुरायाः मुख्यमन्त्रिणौ, अन्येषां राज्येषां मुख्यमन्त्रिणः च, केन्द्रीयमन्त्रिणः च पूर्वनिर्धारितेषु कार्यक्रमेषु भागं ग्रहीष्यन्ति।

भाजपस्य वरिष्ठनेतॄणां निरन्तरं असमदौरेण स्पष्टं भवति यत् पक्षः एतत् निर्वाचनं अत्यन्तं गम्भीरतया गृह्णाति।

हिन्दुस्थान समाचार