Enter your Email Address to subscribe to our newsletters


बरेलीनगरम्, 29 मार्चमासः (हि.स.)। बरेली-नगरे जिला-ओलम्पिक-संघस्य तत्वावधाने 30 मार्चमासतः 3 अप्रैलमासपर्यन्तं 54तमी राष्ट्रीय-वरिष्ठ-महिला-हैण्डबॉल-प्रतियोगिता आयोज्यते। प्रतियोगितायाः सर्वाः व्यवस्थाः सम्पन्नाः सन्ति, नगरे च क्रीडा-प्रेमिषु विशेषः उत्साहः दृश्यते।
पत्रकार-वार्तायां उत्तर-प्रदेश-ओलम्पिक-संघस्य महासचिवः तथा हैण्डबॉल-एसोसिएशन-ऑफ-इण्डिया-कार्यकारी-अध्यक्षः डॉ.आनन्देश्वर-पाण्डेयः अवदत् यत् अल्प-समये एव प्रतियोगितायाः आवंटनं बरेली-नगराय अभवत्, तथापि स्थानीय-संघेन सर्वाः व्यवस्थाः समये एव पूर्णाः कृताः। सः उक्तवान् यत् बरेली-नगरे क्रीडा-प्रेमिणां उत्साहः क्रीडकाणां प्रदर्शनं वर्धयिष्यति।
कार्यक्रम-संयोजकः तथा जनपद-ओलम्पिक-संघस्य वरिष्ठ-उपाध्यक्षः मुकेश-गुप्तः अवदत् यत् आयोजनस्य सफलतायै नगरवासिनां पूर्ण-सहयोगः लभ्यते। प्रतियोगितायाः उद्घाटनं 30 मार्चमासे अपराह्णे त्रिवादने फ्यूचर-विश्वविद्यालय-परिसरे भविष्यति, समापन-समारोहः 3 अप्रैलमासे आयोज्यते।
जनपद-ओलम्पिक-संघस्य अध्यक्षः डॉ.आशीष-गुप्तः अवदत् यत् 2021 तथा 2023 वर्षयोः अपि बरेली-नगरे एषा प्रतियोगिता सफलतया आयोजिता आसीत्, अस्मिन् वर्षे च आयोजनं अन्ताराष्ट्रिय-मानकानुसारं कर्तुं प्रयासाः क्रियन्ते। क्रीडकानां निवास-भोजन-चिकित्सा-व्यवस्थाः फ्यूचर-कॉलेज-परिसरे विशेषतया सुनिश्चिताः सन्ति।
कोषाध्यक्षः डॉ.स्वतन्त्र-कुमारः अवदत् यत् प्रतियोगितां भव्य-सुरक्षितं च कर्तुं सर्वाः आवश्यक-प्रबन्धाः कृताः। समापन-समारोहे प्रायः 10 सहस्र-दर्शकाणां आगमनस्य सम्भावना अस्ति। मीडिया-प्रभारी अङ्कुर-किशोर-सक्सेना अवदत् यत् पत्रकाराणां कृते मीडिया-केन्द्राणि तथा नगरे आकर्षक-सेल्फी-प्वाइण्ट् अपि निर्मिताः सन्ति।
अस्यां प्रतियोगितायां देशस्य 27 राज्येभ्यः दलानि भागं गृह्णन्ति, प्रायः 600 क्रीडकाः सहभागिनः भविष्यन्ति। कार्यक्रमे वन-मन्त्री डॉ.अरुण-कुमार-सक्सेना, फ्यूचर-विश्वविद्यालयस्य कुलाधिपतिः मुकेश-गुप्तः, धर्मेन्द्र-गुप्तः, फसील-बेगः, दिनेश-गोयलः, अनिल-अग्रवालः, सुनील-गुप्तः, भावेश-अग्रवालः, अभिनव-अग्रवालः, सौरभ-अग्रवालः, अङ्कित-अग्रवालः, हरदीप-ओबेरॉय इत्यादयः उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता