बिहारपरिषद् माध्यमिकपरीक्षायाः परिणामो निर्गतः , 81.79 प्रतिशतं छात्राः सफलाः, छात्राद्वयं संयुक्त रूपेण अलभत प्रथमस्थानम्
पटना, 29 मार्चमासः (हि.स.)। बिहारविद्यालयपरीक्षासमितिः रविवासरे माध्यमिकवार्षिकपरीक्षाया: २०२६ वर्षस्य परिणामं प्रकाशितवती। राज्यस्य शिक्षामन्त्री सुनीलकुमारः, बोर्डाध्यक्षस्य आनन्दकिशोरस्य सन्निधौ, परिणामस्य घोषणां कृतवान्। अस्मिन् वर्षे कुलं ८१.७
बिहार  बोर्ड: माध्यमिक परीक्षा का परिणाम जारी, 81.79 प्रतिशत परीक्षार्थी उत्तीर्ण


पटना, 29 मार्चमासः (हि.स.)। बिहारविद्यालयपरीक्षासमितिः रविवासरे माध्यमिकवार्षिकपरीक्षाया: २०२६ वर्षस्य परिणामं प्रकाशितवती। राज्यस्य शिक्षामन्त्री सुनीलकुमारः, बोर्डाध्यक्षस्य आनन्दकिशोरस्य सन्निधौ, परिणामस्य घोषणां कृतवान्। अस्मिन् वर्षे कुलं ८१.७९ प्रतिशतं परीक्षार्थिनः सफलतां प्राप्तवन्तः, यत् गतवर्षस्य ८२.११ प्रतिशतस्य तुलनायां किंचित् न्यूनम् अस्ति।

अविच्छिन्नरूपेण अष्टमवर्षेऽपि बिहारबोर्डेन देशे सर्वप्रथमं मैट्रिकपरीक्षाया: परिणामः प्रकाशितः, पुनः एकं अभिलेखं स्थापितम्। शिक्षामन्त्री उक्तवान् यत् बिहारराज्यं देशस्य प्रथमं राज्यं जातम्, यत्र मार्चमासे एव इंटर तथा मैट्रिक परीक्षयोः परिणामौ प्रकाशितौ। सः उक्तवान् यत् केवलं द्वादशदिनेषु मूल्यांकनकार्यं सम्पन्नं कृत्वा परिणामस्य प्रकाशनं बोर्डस्य महान् उपलब्धिः अस्ति।

अस्मिन् वर्षे परीक्षायां द्वे छात्रे संयुक्तरूपेण प्रथमस्थानं प्राप्तवन्त्यौ। जमुईजनपदस्य सिमतुला आवासीयविद्यालयस्य पुष्पाञ्जलिकुमारी तथा वैशालीजनपदस्य चौराईस्थित उच्चमाध्यमिकविद्यालयस्य सबरीनपरवीन, उभे ४९२ अङ्कान् (९८.४ प्रतिशतं) प्राप्य प्रथमस्थानं प्राप्तवन्त्यौ।

द्वितीयस्थाने बेगूसरायजनपदस्य नाहिदसुल्ताना आसीत्, या ४८९ अङ्कान् (९७.८ प्रतिशतं) प्राप्तवती। तृतीयस्थाने बक्सरजनपदस्य अनुपाकुमारी तथा बेगूसरायस्य ओमकुमारः स्तः, यौ ४८८ अङ्कान् (९७.६ प्रतिशतं) प्राप्तवन्तौ।

चतुर्थस्थाने समस्तीपुरस्य ज्योतिःकुमारी, बांका जनपदस्य अनुभवकुमारः तथा पूर्णियाजनपदस्य अंशराजः स्तः, ये ४८७ अङ्कान् (९७.४ प्रतिशतं) प्राप्तवन्तः। पञ्चमस्थाने बेगूसरायस्य प्रेरणाकुमारी, भोजपुरस्य नसरीनपरवीन, बेगूसरायस्य अवनीशकुमारः, कैमूरस्य विकासकुमारगुप्तः तथा सहरसाजनपदस्य रुपेशकुमारः सन्ति, ये ४८६ अङ्कान् (९७.२ प्रतिशतं) प्राप्तवन्तः।

प्रथमपञ्चस्थानेषु कुलं १३ परीक्षार्थिनः सन्ति, तथा षष्ठस्थानात् दशमस्थानपर्यन्तं १२६ छात्राः स्थानं प्राप्तवन्तः। छात्राः छात्राश्च स्वपरिणामं बिहारबोर्डस्य आधिकारिकजालपुटे पश्यितुं शक्नुवन्ति।

उल्लेखनीयम् अस्ति यत् मैट्रिकवार्षिकपरीक्षा २०२६ वर्षे फरवरीमासस्य १७ तिथेः २५ तिथेः पर्यन्तं राज्यस्य १६९९ परीक्षा केन्द्रेषु आयोजिता आसीत्। अस्मिन् परीक्षायां कुलं १५.१२ लक्षाः परीक्षार्थिनः सम्मिलिताः, येषु ७.८५ लक्षाः छात्र्यः तथा ७.२६ लक्षाः छात्राः आसन्। परीक्षा कठोरसुरक्षायां निरीक्षणेन सह शान्तिपूर्वकं सम्पन्ना।--------------

हिन्दुस्थान समाचार