Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, २९ मार्चमासः (हि.स.)। मध्यप्रदेशस्य राजधान्यां भोपाल-नगरे स्थिते राजाभोज-विमानतले अद्य रविवासरे ग्रीष्म-ऋतु-समयसूची प्रवर्तिता। अस्मिन् काले भोपाल-नगरस्य नूतन-नगरैः सह संयोजने केवलं नव-मुम्बई-नगरं प्रति एका नूतना उड्डयन-सेवा आरभ्यते, यदा गोवा-मार्गे सञ्चालिता इण्डिगो-विमान-सेवा अद्य प्रभृति स्थगिता भविष्यति।
राजाभोज-विमानतलस्य निदेशकः रामजी-अवस्थी अवदत् यत् ग्रीष्म-ऋतु-समयसूच्याः प्रवर्तनेन सह भोपालतः वायु-सम्पर्के वृद्धि: भविष्यति। नूतन-समयसूच्याः अन्तर्गतं नव-मुम्बई तथा हैदराबाद-नगरयोः कृते अतिरिक्त-उड्डयन-सेवाः आरभ्यन्ते, येन यात्रिभ्यः अधिकाः विकल्पाः उपलब्धाः भविष्यन्ति। नूतन-व्यवस्थायाः अनन्तरं भोपालतः ३६ उड्डयन-सेवाः (१८ युग्मानि) सञ्चालिताः भविष्यन्ति।
विमानतल-प्रबन्धनस्य अनुसारं नागर-विमान-परिवहन-महानिदेशालयस्य (डीजीसीए) अनुमोदनानन्तरं एषा नूतना ग्रीष्म-समयसूची प्रवर्तिता। अस्याः अनुसारं इण्डिगो-विमान-संस्था मुम्बई तथा हैदराबाद-नगरयोः कृते अतिरिक्त-उड्डयन-सेवां प्रारभते, येन यात्रिणां यात्रायाः सुविधा वर्धते।
नूतन-समयसूच्याः अनुसारं भोपालतः दिल्ली, मुम्बई, नव-मुम्बई, बेंगलुरु, हैदराबाद, पुणे, अहमदाबाद तथा रायपुर-नगराणि प्रति प्रत्यक्ष-उड्डयन-सेवाः उपलब्धाः भविष्यन्ति। एतासां सेवाः इण्डिगो, एयर-इण्डिया तथा एयर-इण्डिया-एक्सप्रेस इत्याभिः संस्थाभिः सञ्चालयिष्यन्ते। अस्मिन् काले दिल्ली-नगरं प्रति प्रतिदिनं सप्त उड्डयन-सेवाः भविष्यन्ति, मुम्बई-नगरं प्रति चत्वारः, बेंगलुरु-नगरं प्रति त्रयः, हैदराबाद-नगरं प्रति द्वे उड्डयन-सेवे उपलब्धे भविष्यतः।
ग्रीष्म-ऋतौ एयर-इण्डिया-एक्सप्रेस-संस्था भोपाल-नगरे स्वस्य आधार-केन्द्रं (बेस-स्टेशन) प्रारभते। सा बेंगलुरु-नगरं प्रति उड्डयन-सेवां सञ्चालयित्वा अत्र स्वक्रियाः आरभ्यते। किन्तु गोवा-नगरं प्रति गन्तुम् इच्छन्तः यात्रिण: अस्मिन् काले किञ्चित् क्लेशम् अनुभविष्यन्ति, यतः भोपाल-गोवा-मध्ये सञ्चालिता इण्डिगो-उड्डयन-सेवा अद्य प्रभृति स्थगिता भविष्यति। अतः यात्रिभि: संयोजित-उड्डयन-सेवा वा रेलयान-यात्रा स्वीकरणीया भविष्यति।
विमानतल-प्रबन्धनस्य मतम् अस्ति यत् ग्रीष्म-ऋतौ उड्डयन-सेवानां वृद्ध्या भोपालतः देशस्य प्रमुख-नगरैः सह सम्पर्कः अधिकं सुदृढः भविष्यति। विमानतल-निदेशकस्य रामजी-अवस्थी-मते एषा ग्रीष्म-समयसूची अक्तूबर-मासपर्यन्तं प्रवर्तते, अस्मिन् काले वायु-सम्पर्कस्य अधिक-विस्तारस्य सम्भावना अपि अस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता