मुख्यमंत्री डॉ. यादवो मध्य प्रदेशस्य मृत्तिकायाः गौरवभूतस्य कवेः भवानी प्रसाद मिश्रस्य जयंत्यां विहितवान् नमनम्
भाेपालम्, 29 मार्चमासः (हि.स.)। हिन्दी-साहित्यस्य प्रसिद्धः कविः, गांधीवादी-विचारकः, साहित्य-अकादमी-पद्मश्री-पुरस्काराभ्यां सम्मानितः, मध्यप्रदेशस्य भूमेः गौरवः पण्डितः भवानीप्रसाद-मिश्रस्य अद्य रविवासरे जयंती अस्ति। अस्मिन् अवसरे मुख्यमन्त्री डॉ
मुख्यमंत्री डॉ. यादव ने  भवानी प्रसाद मिश्र की जयंती पर किया नमन


भाेपालम्, 29 मार्चमासः (हि.स.)।

हिन्दी-साहित्यस्य प्रसिद्धः कविः, गांधीवादी-विचारकः, साहित्य-अकादमी-पद्मश्री-पुरस्काराभ्यां सम्मानितः, मध्यप्रदेशस्य भूमेः गौरवः पण्डितः भवानीप्रसाद-मिश्रस्य अद्य रविवासरे जयंती अस्ति। अस्मिन् अवसरे मुख्यमन्त्री डॉ. मोहन यादवस्तं स्मृत्वा सादरं नमनं कृतवान्। सहैव तेन भवानीप्रसाद-मिश्रस्य रचनाः स्मारयन् उक्तं यत् तस्य एताः अमूल्याः कृतयः सदा साहित्य-जगतं प्रकाशयिष्यन्ति।

मुख्यमन्त्री डॉ. यादव सामाजिक-माध्यमे “एक्स्” इत्यत्र स्वसन्देशे लिखितवान्— “मध्यप्रदेशस्य भूमेः गौरवाय कवये भवानीप्रसाद-मिश्राय जयंती-अवसरे सादरं नमनं करोमि। ‘सतपुड़ा-के-जंगल’ इत्यत्र प्रकृतेः लोकजीवनस्य च सजीव-चित्रणं तथा ‘गीतफरोश’ इत्यत्र समाजस्य विडम्बनानां सरलया किन्तु गभीरया अभिव्यक्तिः भवतः लेखनस्य विशिष्टता अस्ति। भवतः रचनाः स्वभूम्या मूल्यानां च सह संबद्धतां धारयितुं प्रेरयन्ति।”

उल्लेखनीयम् अस्ति यत् हिन्दी-साहित्यस्य प्रसिद्धः कविः तथा महान् गांधीवादी-विचारकः भवानीप्रसाद-मिश्रः २९ मार्च १९१३ तमे वर्षे मध्यप्रदेशस्य होशंगाबाद-जिलस्य टिगरिया-ग्रामे जातः। सः “द्वितीय-तारसप्तक” इत्यस्य प्रमुखः कविः आसीत्। गांधीवादस्य शुद्धता, पावनता तथा नैतिकता च तस्य कवितासु स्पष्टतया प्रतिबिम्बितं दृश्यते।

---------------

हिन्दुस्थान समाचार