Enter your Email Address to subscribe to our newsletters

भारतीय-चित्रपटस्य इतिहासे ३० मार्च-मासस्य विशेषं महत्त्वम् अस्ति। अस्मिन् एव दिने १९९२ तमे वर्षे महान् चलचित्र-निर्देशकः सत्यजित् रे इत्यस्मै प्रतिष्ठितः ऑस्कर-लाइफटाइम-अचीवमेंट-पुरस्कार-प्रदानम् अभवत्। एतत् सम्मानं तस्य चलचित्र-क्षेत्रे अतुलनीय-योगदानस्य मान्यतारूपेण दत्तम्, येन भारतस्य वैश्विक-चित्रपट-जगति नूतन: परिणाम: प्राप्त:।
सत्यजित्-रे भारतीय-चित्रपटस्य युगपुरुषः मन्यते, येन स्व-चित्रपटेषु समाजः, मानवीय-संवेदनाः तथा यथार्थः अत्यन्तं प्रभावेन प्रदर्शिताः। तस्मै १९९२ तमे वर्षे एव भारतस्य सर्वोच्च-नागरिक-पुरस्कारः भारतरत्न: अपि प्रदत्तः, तथा १९८४ तमे वर्षे दादासाहेब-फाल्के-पुरस्कार: अपि लब्धः।
स्वस्य कार्यकाले तेन प्रायः ३७ चलचित्राणि निर्देशितानि, येषु पाथेर पांचाली, अपराजितो, अपूर संसार तथा चारूलता इत्यादयः प्रमुखाः सन्ति। एतेषां चलचित्राणां प्रभावः न केवलं भारते, अपि तु विश्व-चित्रपट-जगति अपि प्रगाढः आसीत्।
उल्लेखनीयम् यत् अकादमी अवार्ड (ऑस्कर) चलचित्र-जगतः सर्वोच्चः प्रतिष्ठितः पुरस्कारः मन्यते। अस्य आरम्भः १९२९ तमे वर्षे अकादमी ऑफ मोशन पिक्चर आर्ट्स एंड साइंसेज द्वारा कृतः, यः चलचित्रस्य विविध-क्षेत्रेषु उत्कृष्टतायै दीयते। भारतीय-चित्रपटेषु मदर इंडिया प्रथमं चलचित्रम् आसीत्, यत् १९५७ तमे वर्षे श्रेष्ठ-विदेशी-भाषा-चित्रपट-श्रेण्यां नामाङ्कनं प्राप्तवान्।
अतः ३० मार्च-दिवसः भारतीय-चित्रपटस्य गौरवस्य प्रेरणायाश्च प्रतीकः अस्ति, यः अग्रिम-वंशान् उत्कृष्टतां प्रति प्रेरयति।
महत्वपूर्ण-घटनाः
१८६७ — अमेरिकादेशेन रूस देशात् अलास्का ७.२ मिलियन-डॉलर-मूल्येन क्रयः सम्पन्नः।१९१९ — महात्मागांधी रॉलेट्-अधिनियमस्य विरोधाय राष्ट्रव्यापि-आन्दोलनस्य घोषणां कृतवान्।१९४९ — राजस्थानराज्यस्य निर्माणम् (वृहत्तर-राजस्थान-संघस्य गठनम्)।१९५३ — अल्बर्ट-आइंस्टीन- एकीकृत-क्षेत्र-सिद्धान्तस्य घोषणां कृतवान्।१९८१ — रोनाल्डरीगन-उपरि वाशिंगटन-नगरे आक्रमणम् अभवत्।१९९२ — सत्यजित्-रे ऑस्कर-पुरस्कारेण सम्मानितः।
जन्म
१८५३ — विन्सेंट-वैन गो१८७० — दादासाहेब फाल्के१८९९ — सीरिल रैडक्लिफ१९०८ — देविका रानी
निधनम्
१०३० — महमूद: गजनवी१६६४ — गुरु-हरकिशन:२००२ — आनंद-बख्शी२००६ — मनोहरश्याम: जोशी
महत्वपूर्ण-अवसरः
राजस्थानदिवस:
हिन्दुस्थान समाचार / अंशु गुप्ता