नवीतो मुंबईनगरीतः 30 तः अधिकेषु नूतनेषु मार्गेषु उड्डयनं शुभारप्स्यते इंडिगोद्वारा, 400तः अधिकानि भविष्यति संचालितानि
नव दिल्ली, 29 मार्चमासः (हि.स.)। भारतस्य प्रमुखा विमानसेवा कम्पनी “इण्डिगो” इति, महाराष्ट्रराज्यस्य नवी मुम्बई अन्ताराष्ट्रियाद् विमानस्थलात् अधिकानि त्रिंशत् नवीनानि उड्डयनमार्गाः आरभ्यमाणाः इति घोषणां कृतवती। एतेषां मार्गाणां सेवाः २९ मार्चतः २
इंडिगो विमान संग्रहित फोटो


नव दिल्ली, 29 मार्चमासः (हि.स.)।

भारतस्य प्रमुखा विमानसेवा कम्पनी “इण्डिगो” इति, महाराष्ट्रराज्यस्य नवी मुम्बई अन्ताराष्ट्रियाद् विमानस्थलात् अधिकानि त्रिंशत् नवीनानि उड्डयनमार्गाः आरभ्यमाणाः इति घोषणां कृतवती। एतेषां मार्गाणां सेवाः २९ मार्चतः २३ एप्रिल पर्यन्तं क्रमशः प्रवर्तिष्यन्ते।

कम्पन्या उक्तं यत्, एतेन नूतनमार्गप्रारम्भेन आग्रा, अयोध्या, बागडोग्रा, बेलगाम, चण्डीगढ, दीव, कन्नूर, कोलकाता, पटना, राजकोट, श्रीनगर, वाराणसी, विशाखपट्टनम् इत्यादीनि प्रमुखानि नगराणि नवी मुम्बई सह संयोजितानि भविष्यन्ति। एतेषां मार्गाणां प्रवर्तनानन्तरं नवी मुम्बईतः प्रति सप्ताहं चतुःशताधिकाः उड्डयनसेवाः सञ्चालयिष्यन्ते, येन यात्रिकेभ्यः अधिकसुविधा उत्तमयात्राविकल्पाश्च प्राप्ताः भविष्यन्ति।

कम्पन्या अपि सूचितं यत् नवी मुम्बई तथा गुजरातराज्ययोः मध्ये सम्पर्कः विशेषतया सुदृढीकृतः अस्ति। अस्य अन्तर्गतं भावनगरनवी मुम्बईयोः मध्ये प्रतिदिनं द्वे प्रत्यक्षे उड्डयनसेवे आरब्धे स्तः। एते उड्डयनाः एटीआर विमानैः सञ्चालयन्ते, येन शीघ्रा सुगमा च यात्रा संभवति।

अतिरिक्ततया कम्पनी जामनगरनगराय अपि प्रत्यक्ष उड्डयनसेवां आरब्धुं घोषणां कृतवती, या २३ एप्रिलतः प्रारभ्यते। अस्य विस्तारस्य अनन्तरं कम्पनी गुजरातस्य षट्सु नगरेषु अहमदाबाद, वडोदरा, सूरत, राजकोट, भावनगर, जामनगर इत्येषु स्वसेवाः प्रदास्यति। एतेषां नगराणां कृते समष्ट्या प्रति सप्ताहं सहस्रचतुःशताधिकाः उड्डयनसेवाः सञ्चालयिष्यन्ते।

निर्गतकार्यक्रमानुसारं नवी मुम्बईतः अनेकेषां नगराणां कृते दैनिक उड्डयनसेवाः उपलभ्यन्ते। तेषु गोवा, कोल्हापुर, गोरखपुर, भोपाल, देहरादून, हुब्बली, इन्दौर, दुर्गापुर, मदुरै, औरंगाबाद, जबलपुर, झारसुगुडा, रायपुर इत्यादीनि नगराणि सम्मिलितानि सन्ति।

केषाञ्चन मार्गाणां कृते साप्ताहिकाधारेण उड्डयनसेवाः सञ्चालयिष्यन्ते। आग्रा, देहरादून, दुर्गापुर, श्रीनगर इत्येषां नगराणां कृते सप्ताहस्य निश्चितदिनेभ्यः सेवाः उपलभ्यन्ते।

अधुना अस्याः विमानसेवायाः निकटे चत्वारिशताधिकं विमानानां दलं अस्ति तथा सा प्रतिदिनं द्विसहस्रद्विशताधिकाः उड्डयनसेवाः सञ्चालयति, येन पञ्चनवतिः अधिकानि देशीयस्थानानि चत्वारिंशदधिकानि अन्ताराष्ट्रियगन्तव्यस्थानानि च संयोजितानि सन्ति।

---------------

हिन्दुस्थान समाचार