Enter your Email Address to subscribe to our newsletters


हजारीबागः, 29 मार्चमासः (हि.स.)।
हजारीबाग नगरात् शनिवासरे रात्रौ विलम्बेन रामनवमी अवसरस्य शोभायात्रा निर्गता। अस्मिन् कार्यक्रमे सहस्रशः रामभक्ताः मार्गेषु समागताः। सम्पूर्णे नगरे उत्साहस्य श्रद्धायाश्च वातावरणं दृश्यते।
अस्मिन् वर्षे शोभायात्रायां कुलं १०७ अखाडाः सम्मिलिताः सन्ति, ये पारम्परिकवेशभूषाभिः शस्त्रैः च सह स्वस्वकौशलानि प्रदर्शयन्तः अग्रे गच्छन्ति। एषा विशालशोभायात्रा प्रायः ८ किलोमीटरपरिमाणे विस्तृता अस्ति।
ढोल-नगाडानां ध्वनिभिः तथा आधुनिकसङ्गीतस्य तालैः सह युवा वृद्धाश्च भक्ताः “जय श्रीराम” इति घोषं कुर्वन्तः उत्साहपूर्वकं शोभायात्रया सह गच्छन्ति।
शोभायात्रां प्रति प्रशासनं पूर्णतया सजगम् अस्ति। पुलिसाधीक्षकः अंजनीअञ्जनः तथा उपायुक्तः शशिप्रकाशसिंहः मुख्यवेदिकातः सम्पूर्णस्य आयोजनस्य निरन्तरं निरीक्षणं कुर्वन्ति। संवेदनशीलप्रदेशेषु अतिरिक्तपुलिसबलस्य नियुक्तिः कृता, यत् कस्यापि अप्रियघटनायाः निवारणं भवेत्।
प्रशासनद्वारा ड्रोनयन्त्रैः तथा सीसीटीवीयन्त्रैः अपि निरीक्षणं क्रियते। हजारीबागनगरस्य एषा रामनवमीशोभायात्रा स्वभव्यता, अनुशासनं, परम्परा च कारणेन देशव्यापि प्रसिद्धा अस्ति।
अस्य कार्यक्रमस्य दर्शनार्थं झारखण्डराज्यात् अन्येभ्यः राज्येभ्यः अपि बहवः जनाः आगताः। शोभायात्रायाः समये धार्मिकश्रद्धया सह सामाजिकैकतायाः अपि अद्भुतं दृश्यं प्रकटते।
शनिवासरे रात्रौ आरब्धः अयं उत्सवः रविवासरे अपि रात्रिपर्यन्तं प्रवर्तते। सम्पूर्णे नगरे भक्तानां उत्साहः चरमसीमानं प्राप्तः अस्ति। सर्वत्र “जय श्रीराम” इति घोषः निनदति, येन वातावरणं पूर्णतया भक्तिमयं जातम्।
---------------
हिन्दुस्थान समाचार