खेलो इंडिया ट्राइबल गेम्स 2026: पूनम उरांव ने रचा इतिहास, 50 किलो वर्ग में जीता पहला स्वर्ण पदक
अंबिकापुरम्, 29 मार्चमासः (हि.स.)। छत्तीसगढस्य सरगुजा जिल्लायां आयोजितायां देशस्य प्रथमे ‘खेलो इंडिया ट्राइबल गेम्स 2026’ नाम्नि क्रीडायां झारखण्डप्रदेशस्य कन्या पूनम उरांव नाम्नी ऐतिहासिकीं सिद्धिम् अलभत। सा 50 किलोग्राम वर्गस्य कुश्ती स्पर्धाया
खेलो इंडिया ट्राइबल गेम्स 2026


खेलो इंडिया ट्राइबल गेम्स 2026


खेलो इंडिया ट्राइबल गेम्स 2026


अंबिकापुरम्, 29 मार्चमासः (हि.स.)।

छत्तीसगढस्य सरगुजा जिल्लायां आयोजितायां देशस्य प्रथमे ‘खेलो इंडिया ट्राइबल गेम्स 2026’ नाम्नि क्रीडायां झारखण्डप्रदेशस्य कन्या पूनम उरांव नाम्नी ऐतिहासिकीं सिद्धिम् अलभत। सा 50 किलोग्राम वर्गस्य कुश्ती स्पर्धायां प्रथमं स्वर्णपदकं स्वनाम्नि कृतवती। चतरा जिल्लस्य निवासी पूनम उत्तमया तकनीकया दृढेन च प्रदर्शननेन देशस्य विभिन्नेषु प्रदेशेषु आगतान् क्रीडकान् पराजित्य एतत् गौरवं प्राप्तवती, येन तस्याः राज्यस्य उरांव जनजातेश्च नाम प्रकाशितम्।

पूनमस्य एषा विजयः केवलं पदकप्राप्त्यन्तर्गतः नास्ति, अपि तु तस्याः संघर्षस्य साहसस्य दृढसंकल्पस्य च उत्कृष्टा दृष्टान्तः अस्ति। वर्षे 2019 तमे दिल्ल्यां आयोजितायां राष्ट्रीयस्पर्धायां प्राप्तगम्भीराघातकारणात् सा दीर्घकालं यावत् अखाडात् दूरं स्थितवती। तथापि सा न पराजिता, निरन्तरं परिश्रमं कृत्वा पुनरागमनं कृतवती। मांसपेशीवेदनायामपि ‘टेपिंग’ इत्यस्य साहाय्येन स्पर्धासु भागं गृहीत्वा सा स्वप्रतिद्वन्द्विनः तकनीकया मानसिकबलसम्पन्नतया च पराजितवती।

विजयानन्तरं भावुकता पूनम उक्तवती यत् अष्टवर्षीयात् दीर्घकालान्तरात् आघातात् च आरोग्यलाभानन्तरं अस्मिन् प्रथमे ट्राइबल गेम्से स्वर्णपदकप्राप्तिः तस्याः तस्याः परिवारस्य च अत्यन्तं गौरवस्य क्षणः अस्ति।

साधारणकृषकपरिवारसम्भूता पूनम अद्यतनकाले रांची नगरे क्रीडाग्रामे प्रशिक्षणं प्राप्नोति। तस्याः पिता एव ताम् कुश्ती परीक्षणेषु भागग्रहणाय प्रेरितवान्। पूनम स्वस्य सफलतायाः श्रेयः स्वकोचाय दत्त्वा उक्तवती यत् कठिनकाले तस्य मार्गदर्शनं समर्थनं च तां अग्रे नेतुं शक्तिं दत्तवान्।

स्वर्णपदकप्राप्त्यानन्तरं पूनमस्य आत्मविश्वासः अधिकं दृढः जातः। अधुना तस्याः अग्रम् लक्ष्यं छत्तीसगढे आयोजितेषु जूनियर नेशनल्स इति स्पर्धासु उत्कृष्टं प्रदर्शनं कर्तुं अस्ति, यत् सा अन्तर्राष्ट्रीयस्तरे देशस्य प्रतिनिधित्वं कृत्वा तिरंगध्वजं उन्नामयितुं शक्नुयात्।

---------------

हिन्दुस्थान समाचार