Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, 29 मार्चमासः (हि.स.)। राष्ट्रकुल-संसदीय-संघस्य (भारत-क्षेत्रम् ६) अन्तर्गतं मध्यप्रदेश-छत्तीसगढ-राजस्थान-राज्यानां युवा-विधायकानां द्विदिवसीय-सम्मेलनं ३०-३१ मार्चमासयोः मध्यप्रदेशस्य राजधानी-भोपाल-स्थिते विधानसभाभवने आयोज्यते।
विधानसभाध्यक्षः नरेन्द्रसिंह-तोमरः रविवासरे कार्यक्रमस्य सिद्धतायाः अवलोकनं कृत्वा आयोजनं सफलं सुचारुरूपेण च सम्पन्नं भवेत् इति कृते सम्बन्धित-अधिकारिभ्यः निर्देशान् अयच्छत्। अस्मिन् अवसरे विधानसभायाः प्रमुख-सचिवः अरविन्द-शर्मा अपि उपस्थितः आसीत्।
विधानसभाध्यक्षः तोमरः अवदत् यत् अस्य आयोजनस्य मुख्योद्देश्यं लोकतन्त्रस्य सुदृढीकरणं तथा युवा-जनप्रतिनिधिनां भूमिकायाः विषये मन्थनम् अस्ति। सम्मेलनस्य अन्तर्गतं लोकतन्त्रे यूनां सहभागितायाः दायित्वानां च विषये विस्तृत-चर्चा भविष्यति। सम्मेलनमध्ये पञ्च सत्राणि आयोज्यन्ते- प्रथमदिने त्रीणि, द्वितीयदिने द्वे च। अस्मिन् सम्मेलने ४५ वर्षात् न्यून-वयस्काः मध्यप्रदेशस्य ३७, राजस्थानस्य १३, छत्तीसगढस्य १३ विधायकाः सहभागं करिष्यन्ति। सम्मेलनं ३० मार्च दिनाङ्के प्रातः ९:३० वादने आरभ्यते।
विधानसभायाः प्रमुख-सचिवः अरविन्द-शर्मा अवदत् यत् कार्यक्रमे मुख्यमंत्री डॉ.मोहन-यादवः, विधानसभाध्यक्षः नरेन्द्रसिंह-तोमरः, राजस्थान-विधानसभाध्यक्षः वासुदेव-देवनानी च उपस्थिताः भविष्यन्ति। प्रथमदिने “लोकतन्त्रं नागरिक-सहभागितां च सुदृढीकरणाय युवा-विधायकानां भूमिका” इति विषयः चर्चायाः केन्द्रं भविष्यति। अस्मिन् दिने माखनलाल-चतुर्वेदी-राष्ट्रीय-पत्रकारिता-विश्वविद्यालयस्य कुलगुरुः विजय-मनोहर-तिवारी अपि युवा-विधायकान् सम्बोधयिष्यति।
द्वितीयदिने ३१ मार्चमासे “विकसित-भारत-२०४७ - युवा-विधायकानां दायित्वानि समस्याः च” इति विषयः मन्थनाय प्रस्तुतः भविष्यति। अस्मिन् दिने एमआईटी-पूना इत्यस्य अध्यक्षः डॉ.राहुल-वी-कराडः अपि सम्बोधनं करिष्यति। समापन-समारोहे राज्यसभायाः उपसभापतिः हरिवंशः उपस्थितः भविष्यति। संसदीय-कार्य-मन्त्री कैलाश-विजयवर्गीयः तथा प्रतिपक्ष-नेता उमंग-सिंघारः अपि कार्यक्रमे उपस्थिताः भविष्यन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता