Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 29 मार्चमासः (हि.स.)।
प्रधानमन्त्रिणा नरेन्द्र मोदिना वैश्विकसंघर्षस्य स्थितेः ऊर्जासंकटस्य च विषये चिन्ता व्यक्ता। रविवासरे ‘मन की बात’ कार्यक्रमद्वारा पुनः देशवासिनः प्रति अपीलं कृतवान् यत् ते अफवाहासु ध्यानं न दद्युः एकतां च धारयन्तु। तेन उक्तं यत् अन्ताराष्ट्रियसंघर्षस्य कारणात् पेट्रोलडिजेलयोः उपलब्धता प्रभाविताभवत्। एतादृशे काले अफवाहाभ्यः दूरं स्थित्वा आधिकारिकसूचनासु विश्वासः करणीयः।
प्रधानमन्त्री मोदी स्वस्य मासिकरेडियोकार्यक्रमस्य ‘मन की बात’ इत्यस्य द्विशतद्वात्रिंशत्तमप्रसारणे एतानि उक्तवान्। तेन खाडीदेशेषु वर्तमानसंघर्षस्य मध्ये तत्र स्थितानां भारतीयानां साहाय्ये प्रदत्तसहयोगाय कृतज्ञता व्यक्ता। तेन उक्तं यत् विश्वस्य ऊर्जाआवश्यकताः अस्मात् क्षेत्रात् सम्बद्धाः सन्ति अतः वर्तमानसंघर्षस्य प्रभावः दृश्यते। भारतं स्वस्य अन्ताराष्ट्रियसम्बन्धान् उपयुज्य स्थितेः सामना करोति इति अपि तेन उक्तम्।
प्रधानमन्त्री अस्य विषये राजनीतिं न कर्तुं परामर्शं दत्तवान्। तेन उक्तं यत् एतत् विषयः एकशतचत्वारिंशत्कोटिजनानां जीवनैः सम्बद्धः अस्ति तस्मिन् स्वार्थराजनीत्याः स्थानं नास्ति। अफवाहप्रसारकाः राष्ट्राय हानिकारकाः इति उक्त्वा नागरिकान् प्रति अपीलं कृतवान् यत् ते केवलं सरकारीसूचनासु एव विश्वासं कुर्वन्तु।
उल्लेखनीयम् यत् पश्चिमएशियाक्षेत्रे वर्तमानसंघर्षस्य कारणात् वैश्विकऊर्जापुरवठा प्रभावितः अस्ति येन अनेकेषु देशेषु इन्धनसंकटस्य स्थितिः उत्पन्ना।
प्रधानमन्त्री ‘मन की बात’ कार्यक्रमे देशस्य पाण्डुलिपिनिक्षेपस्य संरक्षणे जनभागीदारीं प्रति अपीलं कृतवान्। तेन उक्तं यत् ‘ज्ञान भारतम्’ उपक्रमस्य अन्तर्गतं पाण्डुलिपीनां संरक्षणं तासां सम्बन्धितसूचनासङ्ग्रहणं च क्रियते। अस्य कृते अनुप्रयोगः अपि विकसितः अस्ति। जनाः स्वस्य समीपे स्थितानां पाण्डुलिपीनां विषये सूचनां ददतु इति अपि तेन उक्तम्।
प्रधानमन्त्री कार्यक्रमे देशे क्रीडाक्षेत्रे वर्धमानम् उत्साहं उपलब्धीश्च अपि उल्लेखितवान्। तेन आईसीसी टी२० विश्वकपे भारतीयपुरुषदलस्य विजयः तथा रणजीट्रॉफ्यां जम्मूकश्मीरस्य ऐतिहासिकसफलता अपि चर्चिता। तथा च उत्तरप्रदेशस्य क्रीडकः कुलवीर सिंह न्यूयॉर्कसिटी अर्धमैराथने तृतीयस्थानं प्राप्तवान् इति अपि तेन उक्तम्। सः एकघण्टात् न्यूनकाले अर्धमैराथनं सम्पन्नं कृतवान् प्रथमः भारतीयः अभवत्। तेन अनाहत सिंह द्वारा स्क्वैश ऑन फायर ओपन विजयः अपि उल्लेखितः तथा अष्टमे मार्चमासीये दिनांके ‘अस्मिता’ महिला लीग आयोजनम् अपि निर्दिष्टम्। तेन उक्तं यत् देशे नारीशक्तिः क्रीडाक्षेत्रे महत्वपूर्णां भूमिकां निर्वहति।
प्रधानमन्त्री यथापूर्वं अस्मिन् अपि अवसरि स्वस्थजीवनशैलीस्य महत्त्वं प्रकाशयन् नियमितव्यायामः योगः संतुलितआहारः इत्यादीनां आवश्यकता उपदिष्टवान्। एकस्मिन् प्रसङ्गे तेन उक्तं यत् इन्स्टाग्राममाध्यमे युवराज दुआ इत्यस्य अनुरोधस्य उत्तरं दत्तवान् यस्य तस्य पितुः उपरि सकारात्मकः प्रभावः अभवत् सः च शर्करायाः सेवनं न्यूनं कृतवान्।
तेन बेंगलुरुनगरस्य ‘प्रयोग इन्स्टीट्यूट ऑफ एजुकेशन रिसर्च’ संस्थायाः प्रयत्नाः प्रशंसिताः। एषा संस्था बालान् विज्ञानस्य व्यावहारिकानुभवेन संयोजयति इति तेन उक्तम्। तथा च नागासमुदायस्य ‘मोरुंग’ प्रणाली अपि उल्लेखिता या परम्परायाः आधुनिकशिक्षायाः च समन्वयं दर्शयति।
प्रधानमन्त्री ग्रीष्मकालं दृष्ट्वा जलसंरक्षणप्रयत्नान् अपि प्रकाशितवान्। तेन त्रिपुराराज्यस्य वाङ्मुनग्रामः छत्तीसगढराज्यस्य कोरियाजिलः तेलंगानाराज्यस्य मुधिगुण्टाग्रामः इत्येषां उदाहरणानि दत्तानि यत्र वर्षाजलसञ्चयनं भूजलसंरक्षणं च सफलतया क्रियते।
प्रधानमन्त्री मत्स्यजीविनां जीवनस्तरस्य उन्नत्यर्थं सरकारेण क्रियमाणानां प्रयासानां उल्लेखं कृतवान्। अस्मिन् क्षेत्रे नवान्वेषणानि भवन्ति मत्स्यजीविनः आत्मनिर्भराः भवन्ति इति तेन उक्तम्।
प्रधानमन्त्री उक्तवान् यत् वाराणसिनगरे एकस्मिन् घण्टायां द्विलक्षपञ्चाशत्सहस्राधिकानि वृक्षारोपणानि कृत्वा विश्वकीर्तिमान् स्थापितः। तथा नागालैंडराज्यस्य चिजामीग्रामस्य महिलाः शताधिकपञ्चाशत्परम्परागतबीजप्रकारान् संरक्षन्ति। सामूहिकप्रयत्नैः एते बीजाः सामुदायिकबीजबैंकमध्ये सुरक्षिताः भवन्ति।
तेन ‘प्रधानमन्त्री सूर्यघर मुफ्त बिजली योजना’ इत्यस्य प्रभावः अपि वर्णितः येन देशे जनानां जीवनं सकारात्मकरीत्या परिवर्तते।
प्रधानमन्त्री उक्तवान् यत् ‘माय भारत’ उपक्रमः युवान् राष्ट्रनिर्माणे संयोजयति। अस्य माध्यमेन आयोजितेन ‘बजट क्वेस्ट’ कार्यक्रमेन युवानां विचाराः प्रकटिताः ये देशविकासे तेषां सक्रियभागितां दर्शयन्ति।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani