उत्तरप्रदेशे विकासोऽधुना घोषणा न परिणामोऽस्ति, जेवर इंटरनेशनलविमानस्थानकं संजातं सर्वतो जीवितोदाहरणम्
लखनऊ, 29 मार्चमासः (हि.स.)। उत्तरप्रदेशे मुख्यमन्त्रिणो योगिनः आदित्यनाथस्य कुशलनेतृत्वेन दृढसंकल्पेन च वर्ष २०१७ अनन्तरं यः विकासकथानकः लिखितः, सः अधुना केवलं योजनासु सीमितः न रहति, अपितु भूमौ दृश्यरूपेण परिणामेषु परिवर्तितः अस्ति। उत्तरप्रदेशे
उत्तरप्रदेशे विकासोऽधुना घोषणा न परिणामोऽस्ति, जेवर इंटरनेशनलविमानस्थानकं संजातं सर्वतो जीवितोदाहरणम्


लखनऊ, 29 मार्चमासः (हि.स.)।

उत्तरप्रदेशे मुख्यमन्त्रिणो योगिनः आदित्यनाथस्य कुशलनेतृत्वेन दृढसंकल्पेन च वर्ष २०१७ अनन्तरं यः विकासकथानकः लिखितः, सः अधुना केवलं योजनासु सीमितः न रहति, अपितु भूमौ दृश्यरूपेण परिणामेषु परिवर्तितः अस्ति। उत्तरप्रदेशे ‘डबल इंजन’ सर्वकारेण महतां परियोजनानां केवलं शिलान्यासः एव न कृतः, अपितु निर्धारितसमये तेषां उद्घाटनं कृत्वा एतत् सिद्धं कृतम् यत् उत्तरप्रदेशे विकासः अधुना घोषणा न, अपितु प्रत्यक्षः परिणामः अस्ति।

अस्य सर्वाधिकं जीवंतं उदाहरणं जेवरस्थिते नोएडा अन्ताराष्ट्रियस्य विमानपत्तनस्य उद्घाटनम् अस्ति। अस्य परियोजनायाः शिलान्यासः २५ नवम्बर २०२१ तिथौ अभवत् तथा च अस्य प्रथमचरणस्य उद्घाटनं २८ मार्च २०२६ तिथौ सम्पन्नम्। उत्तरप्रदेशस्य पञ्चमं अन्ताराष्ट्रियं विमानपत्तनं दिल्ली एनसीआर क्षेत्रस्य वर्धमानं वायुसञ्चारभारं न्यूनीकर्तुं पश्चिम उत्तरप्रदेशस्य विकासयात्रायै नूतनपक्षान् दास्यति।

जेवर तथा अयोध्यायाम् अभिलेखकालावधौ निर्मितौ अन्ताराष्ट्रिये विमानपत्तनके राज्यसर्वकारस्य प्रवक्तुः अनुसारं मुख्यमन्त्रिणः योगिनः आदित्यनाथस्य दृष्टेः सफलप्रवर्तनस्य प्रमाणं स्तः। अधुना उत्तरप्रदेशः केवलं घोषणानां न, अपितु भूमौ साकारितपरियोजनानां राज्यं जातम्।

नोएडा अन्ताराष्ट्रियं विमानपत्तनं तस्य एकमात्रम् उदाहरणं नास्ति। विमाननक्षेत्रे अपि अयोध्यायां महर्षि वाल्मीकि अन्ताराष्ट्रियस्य विमानपत्तनस्य निर्माणकार्यं फरवरी २०२२ तः आरब्धं, यत् शीघ्रमेव सम्पन्नम्। ३० दिसम्बर २०२३ तिथौ उद्घाटनानन्तरं अयोध्या वैश्विकधार्मिकपर्यटनमानचित्रे सुदृढतया स्थापिताऽभवत्।

एवमेव १० मार्च २०२४ तिथौ आजमगढ़, अलीगढ़, चित्रकूट, मुरादाबाद, श्रावस्ती इत्येषां विमानपत्तनानां एकस्मिन्नेव दिने उद्घाटनं जातम्, येन क्षेत्रीयसंपर्कता अधिका अभवत्।

मार्गसञ्जालस्य सन्दर्भे १४ जुलाई २०१८ तिथौ पूर्वांचल एक्सप्रेसवे इत्यस्य शिलान्यासः कृतः, तथा १६ नवम्बर २०२१ तिथौ उद्घाटनं सम्पन्नम्। बुंदेलखंड क्षेत्रे अपि फरवरी २०२० तिथौ शिलान्यासः कृत्वा जुलाई २०२२ तिथौ तस्य समर्पणं कृतम्, येन आर्थिकपरिवर्तनस्य नूतना आशा उत्पन्ना।

रैपिड रेल परियोजनायां ८ मार्च २०१९ तिथौ दिल्ली मेरठ आरआरटीएस इत्यस्य शिलान्यासः कृतः। अस्य प्रथमखण्डः २०२३ तमे वर्षे उद्घाटितः, तथा फरवरी २०२६ पर्यन्तं सम्पूर्णरूपेण सञ्चालनं प्रारब्धम्। ७ दिसम्बर २०२० तिथौ आगरा मेट्रो परियोजनायाः शिलान्यासः कृतः, मार्च २०२४ तिथौ उद्घाटनं सम्पन्नम्। २२ फरवरी २०२६ तिथौ मेरठ मेट्रो आरब्धा, या नगरीयपरिवहनं नूतनरूपेण परिभाषितवती।

औद्योगिकरक्षाक्षेत्रे २०१९ तमे वर्षे उत्तरप्रदेश डिफेन्स इंडस्ट्रियल कॉरिडोर इत्यस्य स्थापना कृता, तथा २०२३ तः सञ्चालनं आरब्धम्। कानपुरे अडानी डिफेन्स एण्ड एयरोस्पेस संयन्त्रे फरवरी २०२४ तः उत्पादनं प्रारब्धम्। लखनऊ नगरे ब्रह्मोस क्षेपणास्त्र निर्माणकेन्द्रस्य उद्घाटनं २०२५ तमे वर्षे सम्पन्नम्।

डिजिटलक्षेत्रे ग्रेटर नोएडा स्थिते योट्टाप्रदत्तकेंद्रं २०१९ तमे वर्षे स्थापितम्, २०२२ तः सञ्चालनं आरब्धम्। जुलाई २०१८ तिथौ नोएडा नगरे सैमसंग मोबाइल निर्माणसंयन्त्रस्य उद्घाटनं कृत्वा उत्तरप्रदेशः अद्य भारतस्य अग्रणी दूरवाण्याः निर्माणराज्यं जातम्।

अधुना नोएडा जेवर क्षेत्रे शीघ्रमेव सेमीकंडक्टर निर्माणसंयन्त्रस्य उत्पादनं आरभ्यते, यत् उत्तरप्रदेशं सेमीकंडक्टर केन्द्ररूपेण प्रतिष्ठापयिष्यति तथा च आईटी क्षेत्रे निवेशस्य जीविकानां च नूतनाः अवसराः स्रक्ष्यते।

---------------

हिन्दुस्थान समाचार