Enter your Email Address to subscribe to our newsletters


-लोहिया संस्थानस्य 665 नर्सिंग अधिकारिभ्यो मिलितं नियुक्ति पत्रम्।
लखनऊ, 29 मार्चमासः (हि.स.)।
उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः रविवासरे लोकभवने आयोजिते कार्यक्रमे डॉ. राम मनोहर लोहिया आयुर्विज्ञान संस्थानस्य ६६५ नवचयनितानां नर्सिंग-अधिकारिणां नियुक्तिपत्राणि वितरितवान्।
अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् अद्य प्रदेशे पारदर्शिन्या विध्या नियुक्तयः क्रियन्ते, यत् २०१७ वर्षात् पूर्वं न सम्भवम् आसीत्। गत-नववर्षेषु नव-लक्षाधिकाः जनाः शासकीयसेवायां योजिताः। एते सर्वे प्रतिभाशालिनः युवाशक्त्या च सम्पन्नाः सन्ति। अस्य परिणामस्वरूपं यः राज्यः पूर्वं बीमारू आसीत्, सः अद्य भारतस्य अर्थव्यवस्थायाः वृद्धेः प्रमुखः प्रेरकः जातः। पूर्वं वेतनप्रदानाय अपि वित्तं न आसीत्, अद्य तु उत्तरप्रदेशः राजस्व-अधिशेष-राज्यं जातम्। अद्य उत्तरप्रदेशः देशस्य शीर्षत्रय-अर्थव्यवस्थासु एकः अस्ति। २०१६ वर्षस्य तुलनायां प्रति-व्यक्ति-आयः त्रिगुणा वर्धिता।
मुख्यमन्त्री उक्तवान् यत् प्रतिभायाः सम्मानः अवसरः च यदा भवति तदा राष्ट्रस्य राज्यस्य च लाभः भवति। सः अपि उक्तवान् यत् नियुक्तिप्रक्रियायाः प्रत्येकसोपाने शासनस्य निरीक्षणं भवति। उत्तरप्रदेशस्य युवानां यः परिचय-संकटः आसीत् सः अद्य निवारितः।
२०१७ वर्षात् पूर्वं चिकित्सालय-महाविद्यालयानां संख्या अव्यवस्थितावस्थायां आसीत्। पूर्वसरकाराः केवलं चिकित्सालय-भवननिर्माणं कृत्वा अल्पसंख्याकान् वैद्यान् नियुक्त्वा प्रशंसां प्राप्नुवन्ति स्म। यद्यपि नर्सिंग-कर्मचारिणः एव चिकित्सासेवायाः मेरुदण्डः सन्ति, तथापि तेषां विषये ध्यानं न दत्तम्। तदा यदि नियुक्तिप्रक्रिया आरब्धा अभविष्यत् तर्हि भवन्तः बहवः चयनिताः न अभविष्यन्, यतः तेषां जनकानां समीपे अनैतिकोपायानां कृते धनं न आसीत्।
अद्य लोहिया संस्थानेन अल्पकाले एव उत्तमा प्रतिष्ठा प्राप्ता। कोरोना-काले एसजीपीजीआई, केजीएमयू तथा लोहिया संस्थानम् मिलित्वा वर्चुअल-आईसीयू आरब्धवन्तः। अद्य एतत् संस्थानं आधुनिक-चिकित्सायाः उत्कृष्टं केन्द्रं जातम्। अत्र प्रथमः गामा-नाइफ स्थापितः, तथा ३५० अधिकाः सफलाः रोबोटिक-शल्यक्रियाः सम्पन्नाः। नर्सिंग-अधिकारिपदेषु स्त्रीणां संख्या अधिका जाता। अद्य सरकार ३१ नर्सिंग-महाविद्यालयान् सञ्चालयति।
मुख्यमन्त्री उक्तवान् यत् केचन जनाः अफवाहाः प्रसार्य वातावरणं दूषयितुम् इच्छन्ति। अद्य ग्रेटर नोएडा क्षेत्रे बहवः अन्ताराष्ट्रिय-प्रकल्पाः यथा मेडिकल-डिवाइस-पार्क, फिल्म-सिटी, विश्वविद्यालयाः, टॉय-पार्क इत्यादयः निर्मीयन्ते। सेमीकण्डक्टर-उद्योगस्य विशालः प्रकल्पः अपि आरब्धः, यत् पूर्वं अकल्पनीयम् आसीत्।
सः अपि उक्तवान् यत् विश्वे आर्थिक-अस्थिरता वर्तते। बहुषु देशेषु आपत्काल-सदृशः वातावरणः दृश्यते। परन्तु भारतं दृढतया प्रगतिमार्गे अग्रे गच्छति, यतः सशक्तं नेतृत्वं अस्ति।
मुख्यमन्त्री जनतां प्रति आह्वानं कृतवान् यत् अपवादेभ्यः सावधानाः सन्तु। कश्चित् मिथ्या वदति यत् गैस-सिलिण्डरे न्यूनं गैस अस्ति अथवा लॉकडाउन भविष्यति—एते सर्वे निरर्थकाः प्रचाराः। जनजीवनं सामान्यरूपेण प्रवर्तते।
अद्य सर्वेषु पुलिस-स्थानेषु साइबर-सहायता-कक्षाः सञ्चालिताः। पूर्वं केवलं एकः साइबर-थानः आसीत्, अद्य ७५ जनपदेषु एकैकः अस्ति। १६८१ थानेषु साइबर-हेल्प-डेस्काः स्थापिताः। प्रशिक्षणार्थं १२ उच्च-स्तरीय-प्रयोगशालाः निर्मिताः, अन्याः निर्माणाधीनाः। लखनऊ-नगरे फॉरेंसिक-विज्ञान-संस्थानं स्थापितम्।
---
हिन्दुस्थान समाचार