सक्षम-संस्थया जयपुर-नगरे एकदिवसीय-नेत्र-परीक्षण-महाशिविरस्य आयोजनम्
जयपुरनगरम्, 29 मार्चमासः (हि.स.)। सक्षम-संस्था-जयपुरम् तथा महेश-भगवती-बलदवा-फाउण्डेशन, हैदराबाद इत्येताभ्यां रविवासरे प्रातः ९ वादनात् सायं ५ वादनपर्यन्तं एस.एस.जी.-पारीक-पी.जी.-महाविद्यालये, बनीपार्क-जयपुरे निःशुल्क-एकदिवसीय-नेत्र-परीक्षण-महाशिविर
सक्षम संस्था जयपुर द्वारा जयपुर शहर में एक दिवसीय नेत्र जांच महा शिविर का आयोजन


जयपुरनगरम्, 29 मार्चमासः (हि.स.)। सक्षम-संस्था-जयपुरम् तथा महेश-भगवती-बलदवा-फाउण्डेशन, हैदराबाद इत्येताभ्यां रविवासरे प्रातः ९ वादनात् सायं ५ वादनपर्यन्तं एस.एस.जी.-पारीक-पी.जी.-महाविद्यालये, बनीपार्क-जयपुरे निःशुल्क-एकदिवसीय-नेत्र-परीक्षण-महाशिविरस्य आयोजनं कृतम्। उद्घाटन-समारोहस्य अध्यक्षतां भगवती, महेश-भगवती-फाउण्डेशन-हैदराबादस्य अध्यक्षा, अकरोत्। समारोहस्य मुख्यातिथिः भाजपा-प्रदेशाध्यक्षः मदन-राठौड़ः आसीत्, विशेष-उपस्थितिः सक्षम-संस्थायाः राष्ट्रीय-सह-सचिवः अभय-परगालः, मुख्य-वक्ता च राष्ट्रीय-स्वयंसेवक-संघस्य प्रान्त-प्रचारकः बाबूलालः आसीत्।

भगवती दान-सेवा-समर्पणयोः महत्त्वं प्रतिपाद्य “स्वस्य कृते किञ्चित्, समाजस्य कृते सर्वम्” इति स्व-संकल्पं पुनः उद्घोषितवती। मुख्य-वक्ता बाबूलालः धन-दानस्य सह समय-समर्पणयोः दानस्य अपि महत्त्वं विवृतवान्। शिविरे वरिष्ठ-नेत्र-रोग-विशेषज्ञैः निःशुल्क-सेवाः प्रदत्ताः। शिविरे आहत्य ३६१८ जनानां पञ्जीकरणं जातम्।

नेत्र-परीक्षणानन्तरं ३२६५ आगन्तुकेभ्यः निःशुल्क-औषधयः प्रदत्ताः तथा १६८२ जनानां निःशुल्क-उपनेत्राणि वितरितानि। परीक्षणानन्तरं ३६० जनाः शल्य-चिकित्सार्थं सन्दर्भिताः, येषां राजकीय-वैयक्तिक-चिकित्सालयेषु निःशुल्क-शल्य-चिकित्सा क्रियते। अस्मिन् नेत्र-परीक्षण-शिविरे २५ नेत्र-रोग-विशेषज्ञाः, ५० ऑप्टोमेट्रिस्टाः तथा प्रायः २५० कार्यकर्तारः निःशुल्कं सेवां प्रदत्तवन्तः।

हिन्दुस्थान समाचार / अंशु गुप्ता