प्रधानमंत्री गुजरातस्य माधवपुर मेलायाः अददात् शुभकामनाः, सांस्कृतिकैकता बोधिता महत्वपूर्णा
नव दिल्ली, 29 मार्चमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्र मोदिना गुजरातराज्यस्य पोरबन्दरनगरस्य माधवपुरमेला अवसर उपलक्ष्य देशवासिभ्यः शुभाशयाः प्रदत्ताः। तेन उक्तं यत् अयं उत्सवः भारतस्य समृद्धां संस्कृतिं प्रदर्शयति तथा गुजरातप्रदेशस्य पूर्वोत्तरप्
पंतप्रधान नरेंद्र मोदी


नव दिल्ली, 29 मार्चमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्र मोदिना गुजरातराज्यस्य पोरबन्दरनगरस्य माधवपुरमेला अवसर उपलक्ष्य देशवासिभ्यः शुभाशयाः प्रदत्ताः। तेन उक्तं यत् अयं उत्सवः भारतस्य समृद्धां संस्कृतिं प्रदर्शयति तथा गुजरातप्रदेशस्य पूर्वोत्तरप्रदेशैः सह सांस्कृतिकसम्बन्धान् दृढीकुरुते।

प्रधानमन्त्री सामाजिकमाध्यममञ्चे X स्वसन्देशे अवदत्— “पोरबन्दरनगरस्थे माधवपुरमेले मम हार्दिकाः शुभेच्छाः। अयं जीवंतोत्सवः अस्माकं गौरवपूर्णां संस्कृतिं दर्शयति, तथा च गुजरातप्रदेशस्य पूर्वोत्तरप्रदेशैः सह अटूटान् सांस्कृतिकसम्बन्धान् सुदृढान् करोति।”

तेन पुनः उक्तं— “अयं पर्वः विविधाः परम्पराः एकत्र आनयति तथा ‘एकभारत श्रेष्ठभारत’ इति भावनायाः यथार्थं प्रतिबिम्बं दर्शयति। अहं जनान् अस्मिन् मेले आगन्तुं प्रार्थये।”

उल्लेखनीयम् अस्ति यत् प्रधानमन्त्री नरेन्द्र मोदी एप्रिलमासे २०२२ तमे वर्षे प्रसारिते मनोवार्ताकार्यक्रमे अपि माधवपुरमेलनस्य महत्त्वं तस्य सांस्कृतिकपरम्परां च उल्लेखितवान्।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani