Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 29 मार्चमासः (हि.स.)।
पश्चिमएशियादेशेषु वर्तमानतनावस्य कारणात् विदेशीपोर्टफोलियोनिवेशकाः (एफपीआई) निरन्तरं विक्रेतृभूमिकायां स्थिताः सन्ति। मार्चमासे अद्यावधि विदेशी निवेशकाः भारतीयशेयरबाजारात् 1.13 लक्षकोटिरूप्यकाधिकं धननिर्गमनं कृतवन्तः। अयं सङ्ख्याङ्कः अक्टोबर 2024 अनन्तरं कस्यापि एकस्मिन् मासि कृतायाः विक्रयक्रियायाः अत्यधिकः अभवत्। अक्टोबर 2024 मासे विदेशी निवेशकैः 94,017 कोटिरूप्यकपरिमाणस्य शेयरविक्रयः कृतः आसीत्।
इदानीं तु एषः विक्रयाङ्कः मासस्य समाप्तेः पूर्वमेव अतिक्रान्तः, यद्यपि मार्चमासे 30 मार्च इत्यस्य व्यापारदिवसः अवशिष्टः अस्ति। अतः एषः विक्रयाङ्कः अधिकं वर्धितुं शक्नोति। मार्चमासस्य चतुर्थसप्ताहस्य अन्ते अर्थात् 27 मार्च पर्यन्तं प्राप्तानां दत्तांशानां अनुसारं वर्षे 2026 विदेशी निवेशकाः अद्यावधि 1.27 लक्षकोटिरूप्यकाधिकं धनं घरेलुशेयरापणतो निष्कासितवन्तः।
नेशनल सिक्योरिटीज डिपॉजिटरी लिमिटेड (एनएसडीएल) इत्यस्य दत्तांशानुसारं 2026 वर्षस्य आरम्भात् अद्यावधि क्रयविक्रययोः समाहारेण विदेशीपोर्टफोलियोनिवेशकाः कुलं 1,27,157 कोटिरूप्यकपरिमाणस्य धननिर्गमनं कृतवन्तः। मार्चमासस्य 27 तिथेः पर्यन्तं ते 1,13,810 कोटिरूप्यकपरिमाणस्य शेयरविक्रयं कृतवन्तः। अस्य पूर्वं फरवरीमासे 22,615 कोटिरूप्यकपरिमाणस्य क्रयः कृतः, जनवरीमासे च 35,962 कोटिरूप्यकपरिमाणस्य विक्रयः अभवत्।
बाजारविशेषज्ञाः मन्यन्ते यत् पश्चिमएशियायां प्रवर्तमानेन संघर्षेण निवेशकानां मनोभावेषु (मार्केट सेन्टिमेण्ट्स) न्यूनता जाता, यस्य कारणात् ते स्वधनस्य संरक्षणाय विश्वस्य विभिन्नेषु शेयरबाजारेषु विक्रयं कुर्वन्ति। तथैव रूप्यकस्य अवमूल्यनं कच्चतेलस्य मूल्यानां वृद्धिः च अपि नकारात्मकप्रभावं जनयतः।
रूप्यकस्य दुर्बलता तथा कच्चतेलस्य मूल्यवृद्धिः भारतस्य आर्थिकवृद्धौ अपि प्रतिकूलप्रभावं जनयितुम् अर्हतः, अतः अपि विदेशी निवेशकाः विक्रयमार्गं स्वीकृतवन्तः।
धामी सिक्योरिटीज इत्यस्य उपाध्यक्षः प्रशांतधामी उक्तवान् यत् वैश्विकआर्थिकप्रतिकूलताः तथा भू-राजनीतिकअनिश्चितता (जियोपॉलिटिकल अनसर्टेनिटी) इत्येतयोः कारणेन विदेशीपोर्टफोलियोनिवेशकाः विक्रेतारः अभवन्। पश्चिमएशियायां युद्धानन्तरं वैश्विकशेयरबाजारेषु दुर्बलता दृश्यते।
तस्योपरि खाडीप्रदेशे निवसन्तः भारतीयाः ये धनं प्रेषयन्ति (रेमिटेन्स), तेषां न्यूनतायाः अपि आशङ्का वर्तते। तथैव कच्चतेलस्य उच्चमूल्यस्य कारणात् भारतीयकम्पनीनां लाभः अपि प्रभावितः भविष्यति इति चिन्ता वर्धते।
एतेषां सर्वेषां कारणानां परिणामस्वरूपं विदेशीपोर्टफोलियोनिवेशकाः भारतीयबाजारे निरन्तरं विक्रेतृभूमिकायां एव स्थिताः सन्ति।
---------------
हिन्दुस्थान समाचार